________________
प्रकरणम् ५१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८३ भाभीचरये । पौनः पुन्यं भृशार्थो वा भाभीच्यम् । इष्णाति । 'तीषसह-' (सू २३४० ) इल्पत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषे. ग्रहणं न तु इष्यतीष्णात्योरित्याहुः । एषिता । वस्तुतस्तु इष्णातेरपि इविकल्प उचितः । तथा च गार्तिकम्-'इषेस्वकारे श्यन्प्रत्ययात्प्रतिषेधः' ( वा ४४३५) इति । विष १५२६ विप्रयोगे । विष्णाति । वेष्टा । प्रेष १५२७ ब्लुष १५२८ मेहनसेवनपूरणेषु । प्रष्णाति । प्लुष्णाति । पुष १५२६ पुष्टौ। पोषिता । मुष १३० स्तेये । मोषिता । खच १५३१ भूतप्रादुर्भावे । भूतप्रादुर्भावोsतिक्रान्तोत्पत्तिः । वस्त्राति । वान्तोऽयमित्येके । २५६१ च्छ्योः शृङनुनासिके च । (६-४-१६) सतुक्कस्य छस्य वस्य च क्रमात् श् उठ् एता. इष आभीदरये । तासि 'तीषसह-' इति इविकल्पमाशङ्कयाह तीषसहेत्यति । सहे ते शपा निर्देशबलेन भौवादिक एव सहधातुरत्र निर्दिष्टः । तत्साहचर्यात् तौदादिकस्येव इषग्रहणम्, अकारविकरणत्वसामान्यादिति भावः। इषेस्तकारे श्यन्प्रत्ययादिति । श्यन् प्रत्ययो यस्मादिति बहुव्रीहिः। श्यन्विकरणपठितादिषस्तका परे 'तीषसह-' इति विधिनेत्यर्थः । इष्मातेस्तकारे इड्विकल्पः फलित इति भावः । प्रष प्लुषेति । श्राद्यो दीर्घोपधः। पूष पुष्टी। पोषितेति । अनि सु श्यन्विकरणस्यैव पुषर्ग्रहणादयं सेडिति भावः । 'पुषादिद्युतादि-' इत्यत्र श्यनिकरणपुषादेरेव ग्रहणादङ् न खच भूतप्रादुर्भावे । अतिक्रान्तोत्पत्तिरिति । दशममासादौ उत्पत्तियोग्यस्य एकादशादिमासादिषूत्पत्तिरित्यर्थः । खच्यातीति । नस्य श्चुत्वेन म इति भावः। वान्तोऽयमिति । 'खव भूतप्रादुर्भावे' इलेवं दन्त्योष्ठ्यान्तमेके पठन्तीत्यर्थः । च्छ्वोः शूडनुनासिके च । च्छ् द् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । छकारात्प्राक् तुकः श्चुत्वेन चकारस्य निर्देशः। शुट इते छेदः । श् ऊल् अनयोः समाहारद्वन्द्वात् प्रथमा । चकारेण क्विझलोः विडतीत्यनुवर्तते, तदाह सतुक्कस्य इत्यादि । यथा विश्नः प्रश्नः, क्षदिति । इडभावे क्स: । सहिना साहचर्यादिति । यद्यपि षह षुह चक्यर्थ इति दिवादिरपि सहिति तथापि सहेति शपा निर्देशाद् भौवादिकेनैव सहिना साहचर्यमित्याहुः । श्यन्प्रत्ययादिति । बहुव्रीहिरयम् । श्यन्प्रत्ययवत इषेस्तकारे परत इडिकल्पप्रतिषेध इति वार्तिकार्थः। तथा च देवादिकाद्विकल्पो नेति फलितम् । एवं च 'तीषसह-' इत्यःर इष्णातेरपि प्रहणमिति बोध्यम् । पोषितेति । अनिट्केषु पुष्येति श्यना निर्देशादयं सेडिति भावः । च्छोः शूडनु । छोरिति सतुक
१ पुस्तकान्तरे तु सर्वत्र 'त्रुष' इति ह्रस्वोपधः पाठ एवोपलभ्यते ।