________________
प्रकरणम् ५१] बालमनोरमा तत्त्वबोधिनीसहिता। [३७६ इति वेट् । 'न लिडि' (सू २५२६ ) । स्तरिषीष्ट । 'उश्च' (सू २३६८) इति कित्वम् । स्वीर्षीष्ट । 'सिचि च परस्मैपदेषु' (सू २३६२) इति न दीर्घः । अस्तारीत् प्रस्तारिष्टाम् । प्रस्तरीष्ट, अस्तरिष्ट, अस्तीष्ट । कृञ् १४८५ हिंसायाम् । कृणाति । कृणीते । चकार । चकरे । वृञ् १४८६ वरणे । वृणाति वृणीते। ववार । ववरे । वरिता, वरीता। आशिषि 'उदोष्ठ्यपूर्वस्य' (सू २४६४ )। वूर्यात् । वरिषीष्ट, वूर्षीष्ट । वारीत् अवारिष्टाम् । प्रवरिष्ट, वरीष्ट, अवूष्ट । धूप १४८७ कम्पने । धुनाति । धुनीते । दुधविथ, दुधोथ । दुधुविव । धविता, धोता । 'स्तुसुधूम्भ्यः -' (सू २३८५) इतीट् । अधावीत् । अधविष्ट, अधोष्ट ।
अथ बनात्यन्ताः परस्मैपदिनः । शृ १४८८ हिंसायाम् । 'शृपां हस्वो गुणः । स्तरिता, स्तरीतेति । 'वृतो वा' इति दीर्घविकल्पः । आशिषि स्तीर्यादिति । 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घः । स्तृ षोष्ट इति स्थिते आह लिङ्सिचोरिति वेडिति । 'वृतो वा' इति दीर्घविकल्पनिषेधसूत्रं स्मारयति । न लिङीति । वृत इटो दी? नेत्यर्थः। इडभावपक्षे स्तृषीष्ट इत्यत्र गुणमाशङ्कयाह उश्चेति कित्त्वमिति । लुङि परस्मैपदे सिचि अस्तारिष्टाम् इत्यत्र 'वृतो वा' इति इटो दीर्घविकल्पे प्राप्ते आह सिचि चेति । अस्तरीष्ट, अस्तरिऐति । 'वृतो वा' इति दीर्घः । अस्तीप्टेंति । 'लिमिचोः-' इति इडभावपक्षे ऋत इत्त्वे 'हलि च' इति दीर्घ इति भावः। कृञ् हिंसायाम् । चकरे इति । 'ऋच्छत्यृताम्' इति गुणः । वृञ् वरण इति । आशिषीति । वृ यात् इति स्थिते 'उदोष्ठयपूर्वस्य' इति ऋकारस्य उत्त्वमित्यर्थः, तत्र दन्त्योष्ठयपूर्वस्यापि प्रहणादिति भावः । ऋत उत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति बोध्यम् । वरिषीष्ट, वर्षीष्टेति । 'लिसिचोः-' इति वेट । इडभावे 'उश्च' इति कित्त्वाद् गुणाभावे उत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः । अवारिष्टामिति । 'सिचि च-' इति इटो न दीर्घ इति भावः । वरिष्ट, अवरीष्टेति । 'वृतो वा' इति सिच इटो दीर्घविकल्प इति भावः । दुधविथ, दुधोथेति । 'स्वरतिसूतिसूयतिधूदित:-' इति वेडिति भावः । शृ हिंसायाम् । सेट् । णालि शशार । शृ अतुस् इत्यत्र कित्त्वेऽपि 'ऋच्छ'ष्ठिवुक्लमुचमाम्-' इत्यतः शितीत्यनुवर्तत इत्याह शिति पर इति । न लिङीति। अनेन वृत इटो लिडि दी? नेति स्मारितम् । उदोष्ठय । दन्तोष्ठयोऽपि ओष्ठयप्रहणेन गृह्यत इत्याह वूर्यादिति । वरिषीष्टेति । 'लिङ्सिचोरात्मनेपदेषु' इति वेट। अवूटेति । 'उश्च' इति लिङ्सिचोः कित्त्वाद् गुणाभावे सत्युत्वम् । हलः । संप्रसारणस्येत्यनुवर्तते । अङ्गस्येत्सवयवषष्ठी। हल इति पञ्चमी तदेतदाह