________________
३७८ ]
सिद्धान्तकौमुदी। [क्रयादिइत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थों, द्वितीयो निष्कोषणार्थश्चतुर्थो धारयार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टनोति, विष्टनाति । अवष्टनोति, अवष्टनाति । अवतष्टम्भ । 'जस्तन्भु-' (सू २२६१) इत्यङ् वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति । २५५६ वेः स्कन्नातेनित्यम् । (८-३-७७) वेः परस्य स्कन्नाते: सस्य षः स्यात् । विष्कनोति । विष्कन्नाति । स्कुन्नोति, स्कुनाति । २५५७ हलः श्नः शानज्झौ। (३..२-८३) हलः परस्य श्नः शानजादेशः स्यादौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पचे स्तुभ्नुहि इत्यादि । युञ् १४७६ बन्धने । युनाति । युनीते योता । क्नू १४८० शब्दे । क्नूनाति । क्नूनीते । बनविता। दू १४८१ हिंसायाम् । दूणाति । गुणीते । पूज् १४८२ पवने । २५५८ प्वादीनां ह्रस्वः । (७-३-८०) शिति परे। पुनाति । पुनीते । पविता । लूम् १४८३ छेदने । लुनाति । लुनीते । स्तृञ् १४८४ माच्छादने । स्तृणाति । स्तुणीते । तस्तार तस्तरतुः । स्तरिता, स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि स्तीर्यात् । 'लिङ्सिचो - (सू २५२८) अकीणात् । अकोणीत । क्रीणीयात् । कोणीत । सौत्रा इति । नोपधा इत्यपि ज्ञेयम् । नलोप इति । 'अनिदिताम्-' इत्यनेनेति भावः । विष्टभ्नोतीति । 'स्तन्भेः' इति षत्वम् । अवष्टन्नोतीति । 'अवाच्चालम्बना वैदूर्ययोः' इति षत्वम् । अवतष्टम्भेति । 'स्थादिष्वभ्यासेन-' इति षत्वम् । व्यष्टमदिति । 'प्राक्सितात्-' इति षत्वम्। स्तभानेति । श्वाप्रत्ययस्य शानजादेशे कृते 'अतो हेः' इति लुक् । प्वादीनां ह्रस्वः। 'ष्ठिवुलमुचमाम्-' इत्यतः शितीत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति शिति परे इति । पवितेति । ऊकारन्तत्वात् सेडिति भावः । स्तृञ् आच्छादने । सेट् । तस्तरतुरिति । कित्त्वेऽपि 'त्र.च्छत्य॒ताम्' इति नकारोपधा इत्यपि ज्ञेयाः । विष्टभ्नोतीति । 'अनिदिताम्-' इति नलोपः । 'स्तम्भेः' इति षत्वम्। वेः स्कन्नातेनित्यम् । 'सिवादीनां व' इत्यतो वेति नानुवर्तते इति ध्वननार्थमिह नित्यग्रहणम् । विस्कन्नोतीति । स्क-नातेरित्यत्र नाविशिष्टं रूपं न विवक्षितं किं तु धातुमात्रम् । अन्यथा विष्कम्भिता विष्कम्भितमित्यादावपि षत्वं न स्यात् । न चेष्टापत्तिः, माधवादिप्रन्थविरोगादिति भावः । हलः श्नः । स्तभानेति । 'अतो हेः' इत्यारम्भसामर्थ्यात्सं नेपातपरिभाषया श्रप्रवृत्तेहेर्नु । श्रतएव जहीत्यत्र हिलोपवारणायेयं परिभाषा नोपन्यस्तेत्याहुः । यत्तु कैश्चित् शानजादेशो धातुपाठपठितेभ्यः परस्य नो भवति न तु सौत्रेभ्य इति व्याख्याय स्तन्नीहीत्युदाहृतं तनिष्प्रमाणं माधवादिप्रन्थविरुद्धं च । प्वादीनां स्वः।