________________
३७६ ] सिद्धान्तकौमुदी। [क्रयादि'अडभ्यासन्यवायेऽपि' इत्युक्तम् । संचस्कार 'कारपूर्वः' इत्यादि भाष्ये प्रत्याख्यातम् । तथा हि 'पूर्व धातुरुपसर्गेण युज्यते । अन्तरगत्वात्सुट् । ततो द्वित्वम्। एवं च 'ऋतश्च संयोगादेर्गुणः' (सू २३७६) संचस्करतुः । 'कृसभृत-' (सू २२६३) सूत्रे 'ऋतो भारद्वाजस्य' (सू २२६६ ) इति सूत्रे च' 'कृमोऽसुट इति वक्तव्यम्' ( वा ४४०१)। तेन ससुटकापरस्येत् । संचस्करिथ । सचस्करिव । 'गुणोऽर्ति-' (सू २३८० ) इति सूत्रे 'नित्यं छन्दसि' (सू ३५८७ ) इति सूत्राद् नित्यम् इत्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात् सुटि गुणो न । संस्क्रियात् । 'ऋतश्च संयोगादेः' (सू २५२६) इति लिसिचोर्नेट् । 'एकाच उपदेशे-' (सू २२४६) इति सूत्रात् उपदेशे इत्यनुवर्त्य उपदेशे यः संयोगादिः इति व्याख्यानात् । संस्कृषीष्ट समस्कृत समस्कृषाताम् ।
॥ इति तिङन्ते तनादिप्रकरणम् ॥ अथ तिङन्ते क्रयादिप्रकरणम् ॥ ५१ ॥
डु क्रीम् १४७३ द्रव्यविनिमये २५५४ क्रयादिभ्यःना । (३-१-८१) दित्यत आह अडभ्यासव्यवायेऽपीत्युक्तमिति । वार्तिकमिति शेषः । अटा अभ्यासेन च व्यवधानेऽपि संपर्यादिभ्यः परस्मात् कात्पूर्वः सुडित्यर्थः । इत्यादीति । सुट् इत्येवाधिकृतमस्तु 'कात्पूर्वः' इति 'अडभ्यासव्यवायेऽपि' इति च मास्त्वित्येवं भाष्ये प्रत्याख्यातमित्यर्थः। तदेवोपपादयितुं प्रतिजानीते तथा हीति । पूर्व धातुरुपसर्गेण युज्यते इति । पश्चात्साधनेनेति शेषः। ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकं कार्य पश्चादनुपतिष्यद्धातुप्रत्ययसंबन्धनिमित्तकात्कार्यादन्तरङ्गम् , प्रथमोपस्थितत्वात् । तदुक्तं भाध्ये-'पूर्व धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्गम्'इति। तदाह अन्तरङ्गत्वात्सुट । ततो द्वित्वमिति । तथा भुटि कृते स्कृ इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे 'शपूर्वाः खयः' इति रेफसकारयोनिवृत्ती अभ्यासचुत्वे संचस्कारेति रूपसिद्धेः 'कात्पूर्वः' इति 'अडभ्यासव्यवायेऽपि' इति च न कर्तव्यमिति भावः। एवं समस्करोदित्यत्रापि विकरणान्ताङ्गमक्काडागमापेक्षया अन्तरमत्वात् प्रथमं सुड् भविष्यतीति कृत्वा अड्व्यवायेऽपीत्यंशो न कर्तव्य इत्यूद्यम् । पूर्व धातुरुपसर्गेणेयाश्रयणे फलान्तरमप्याइ एवं चेति । उक्तरीत्या अन्तरङ्गत्वात् सुटि कृते संस्कृ इत्यस्माल्लिटः अतुसि 'ऋतश्च संयोगादेर्गुणः' इति गुणे संचस्करतुरिति सिध्यति । 'पूर्व धातुः साधनेन युज्यते' इत्याश्रयणे तु चक्रतुरिति परिनिष्ठितस्य समित्युपसर्गयोगात्संयोगदित्वाभावाद् गुणस्यासिद्धिरिति भावः । ननु संचस्करिव, संचस्करिथ इत्यत्र च 'कृसभूव-' इति ऋतो भारद्वाजस्य'