________________
३७४ ] सिद्धान्तकौमुदी। [ तनादि. गुणः 'संज्ञापूर्वको विधिरनित्यः' (१६४) इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । चिणोति, क्षेणोति । णितासि । क्षेणितासे। अक्षणीत् । अक्षित, अक्षणिष्ट । ऋणु १४६७ गतौ । ऋणोति, अर्णोति अर्णतः अण्वन्ति । पान । मानणे । अर्णितासि । प्राीत् , पात, आणिष्ट । प्रार्थाः, पार्णिष्ठाः। तृणु १४६८ भदने । तृणोति, तर्णोति । तृणुते, तणुते। घृणु १४६६ दीप्तौ । जघर्ण, जघृणे।
अथ द्वावनुदात्ततौ वनु १४७. याचने । वनुते । वरने । चान्द्रमते परस्मैपदी । वनोति । ववान । मनु १४७१ अवबोधने। मनुते । मेने । हु कृञ् १४७२ करणे। करोति । 'प्रत उत्सार्वधातुके' (सू २४६७)। कुरुतः। यण् । 'न भकुर्छराम्' (स् १६२६) इति न दीर्घः । कुर्वन्ति । २५४८ नित्यं करोतेः। (६-४-१०८) करोतेः प्रत्ययोकारस्य नित्यं लोपः स्याद्वमयोः परयोः । कुर्वः कुर्मः । चकर्थ । चकृव । कर्ता । करिष्यति । २५४६ ये च । (६-४-१०६) कृष उनोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि क्रियात् । कृषीष्ट । ऋणु गतौ। अत्रापि क्षिणुवद् मतभेदालघूपधगुणतदभावौ, तदाह ऋणोति, अर्णोतीति । एवमप्रेऽपि । अण्वन्तीति । 'इको यणचि' ति यणिति भावः । डु कृञ् करणे । करोतीति । उप्रत्ययमाश्रित्य ऋकारन्य गुणः रपरत्वम् । उकारस्य तु तिपमाश्रित्य गुणः । कुरुत इति । तसो ङित्त्वादुकारस्य न गुणः । कुरु अन्ति इति स्थिते आह यणिति । 'इको यणचि' इत्यनेनेति शेषः। उकारस्य यणि कुर्व अन्ति इति स्थिते 'हलि च' इति दीर्घमाशङ्कयाह न भेति । वसि मसि च 'लोपश्चास्यान्यतरस्याम्-' इत्युकारलोपविकल्पे प्राप्ते नित्यं करोतेः । 'उतश्च प्रत्ययात्-' इत्यनुवर्तते, 'लोपश्चास्यान्यतरस्याम्-' इत्यतो लोपः, म्वोरिति च, तदाह करोतेरिति । चकर्थेति । 'कृसमृवृ-' इति नेडिति भावः । अजन्तत्वेऽपि ऋदन्तत्वाद् भारद्वाजमतेऽपि नेट् । करिष्यतीति । करोतु, कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै करवावहै करवामहै । अकरोत् अकुरुताम् । अकुरुत अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते ये च । 'लोपश्चास्यान्यतरस्याम्-' इत्यतो लोप इति अस्येति चानुवर्तते। अस्येत्यनेन पूर्वसूत्रे उत इत्युपात्तः उत्परामृश्यते। 'नित्यं करोतेः' इत्यतः करोतेरित्यनुवर्तते । प्रजाक्षिप्तः प्रत्ययो यकारेण विशेष्यते तदादिविधिः, तदाह कृम उलोप इति । आशिषि क्रियादिति । 'रिङ् शयग्लिक्षु' इति रिलिति भावः । कृषीष्टेति । 'उश्च' इति कित्त्वान्न गुण हिंसायाम् । तिणु च। इमावपि लाक्षणिकणकारौ । तेन विक्षन्ति । वेक्षन्ति