________________
प्रकरणम् ५०] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७३ अतानीत् । २५४७ तनादिभ्यस्तथासोः । (२-४-७६) तनादेः सिचो वा लुक्स्यात्तथासोः । थासा साहचर्यादेकवचनतशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट, अतानिष्ट । 'अनुदात्तोपदेश-' (सू २४२८) इत्यनुनासिकलोपः । तङि । अतत, अतनिष्ट । अतथाः, अतनिष्ठाः । षणु १४६४ दाने । सनोति, सनुते । 'ये विभाषा' (सू २३१६) । सायात् , सन्यात् । 'जनसन-(सू २५०४) इस्यात्वम् । असात्, असनिष्ट । असाथाः, असनिष्ठाः । णु १४६५ हिंसायाम्। घणोति, क्षणुते । 'झपन्त-(सू २२६६) इति न वृद्धिः । अक्षणीत् । अक्षत, अक्षणिष्ट । अक्षथाः, अक्षणिष्ठाः । तिणु १४६६ च । उप्रत्ययनिमित्तो लघूपधअतनोः । अतनवम् अतन्व, अतनुव । तनुयात् । तन्वीत । तनिषीष्ट । अतो हलादेरिति वृद्धिविकल्पं मत्वाह अतनीत्, अतानीदिति । अतनिष्टाम् अतनिषुः । अतनीः अतनिष्टम् अतनिष्ट । अतनिषम् अतनिष्व अतनिष्म । वृद्धिपक्षे अतानिष्टामित्यादि । अतनिष्यत् । लुङः तडि प्रथमैकवचने मध्यमपुरुषैकवचने च विशेषमाह तनादिभ्यस्तथासोः । 'गातिस्था-' इत्यतः सिच इति 'एयक्षत्रियार्ष-' इत्यतो लुगिति 'विभाषा घ्राधेट्-' इत्यतो विभाषेति चानुवर्तते, तदाह तनादेरित्या. दिना । एकवचनतशब्दो गृह्यत इति। न तु लुङादेशपरस्मैपदमध्यमपुरुष. बहुवचनतादेशोऽपीत्यर्थः। यूयमिति । लुङि मध्यमपुरुषबहुवचने सिचि वृद्धिविकल्पे सति अतनिष्ट अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः । तदेवं प्रत्युदाहरणमुक्त्वा सूत्रस्योदाहरणं वक्ष्यन् प्रक्रियां दर्शयति अनुदात्तोपदेशेत्यनुनासिकलोपः तङीति । तडि प्रथमैकवचने तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकि 'अनुदात्तोपदेश-' इति नकारस्य लोप इत्यर्थः, तदाह अतत, अतनिष्टेति । अतथाः, अतनिष्ठा इति च । अतनिषाथामित्यादि सुगमम् । षणु दाने । षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति । सिचो लुक्पक्ष रूपम् । असनिष्टेति । इद् । मलादिपरकत्वाभावादात्त्वं नेति भावः । क्षणुधातुरदुपधः। "वज्रेऽध्वर्युः क्षण्वीत" इति तैत्तिरीये । क्षिणु चेति । इदुपधः । अयमपि हिंसायामित्यर्थः । "वोऽध्वर्युः क्षिरावीत" इति शाखान्तरं शाबरभाष्ये उदाहृतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मात्यत आह उप्रत्ययनिमित्त इति ।
अतनिष्ट, अतानिष्टेति । 'तस्थस्थमिपाम्-' इति तादेशः । 'अतो हलादेः-' इति वा वृद्धिः। अततेति । 'तनादिभ्यस्तथासोः' इति सिज्लुक्यनुनासिकलोपः। अतनिष्टेति । लुगभावपक्षे इट् । षणु दाने । नान्तोऽयं । णकारस्तु लाक्षणिकः । तेन यङ्लुकि संसन्ति संसन्त इत्यादावनुखारपरसवौँ । क्षणु