SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६६ इन्धिता । इनधै । ऐन्छ । ऐन्दाः । खिद ११४६ दैन्ये । खिन्ते । खेत्ता । विद १४५० विचारणे । विन्ते । वेत्ता । __ अथ परस्मैपदिनः । शिब्ल १४५१ विशेषणे । शिनष्टि शिष्टः शिंषन्ति । शिशेषिथ । शेष्टा । शयति । हेधिः । जश्त्वम् । ष्टुत्वम् । 'झरो झरि(सू ७१) इति वा उखोपः । अनुस्वारपरसवौँ । शिफ्टि, शिरि । तथा च इन्ध् ते इति स्थिते 'मषस्तथोः-' इति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्ठितमाह इन्द्ध इति । यद्यपि 'अनिदिताम्-' इत्येवात्र नलोपः सिध्यति । तथापि अनक्ति इत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तमिति बोध्यम् । इन्धते । इन्द्ध्वे । इन्द्धाम् । इन्स्व । इन्द्ध्व म् । इनधै इति । श्नमि उत्तरमस्य इट एत्वे पाटि वृद्धी इन न् ध् ऐ इति स्थिते वाचलोपे पाटः पित्त्वेन उित्त्वाभावात् 'नसोरल्लोपः' इत्यभावे रूपमिति भावः । अत्र नलोपार्थमपि श्नान लोप इत्यावश्यकम्, पाटः पित्त्वेन हित्त्वाभावाद् 'अनिदिताम्-' इत्यस्याप्रवृत्तेः । इनधावहै । लड्याह ऐन्द्धति । ऐन्द्धा इति । 'भषस्तथोः- इति थस्य थः। इन्धीत । लुटि ऐन्धिष्ट । शिष्ल विशेषणे अनिट् । शिशेषिथेति । अजन्ताकारवत्त्वाभावात् कादिनियमानित्यमिट । शिनष् हि इति स्थिते अल्लोपे शिन्ष् हि इति स्थिते आह हेर्धिरिति । शिन् ष् धि इति स्थिते आह जश्त्वमिति । 'झलां जश् झशि' इति षस्य ड इति भावः । ष्टुत्वमिति । धस्य ढ इति भावः । यद्यपि जश्त्वस्यासिद्धत्वात्ततः प्रागेव ष्टुत्वस्य उपन्यासो युक्तः । तथापि जश्त्वं ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं क्रमस्तु न विवक्षितः। भर इति । जश्त्वसंपन्नस्य डस्य लोपविकल्प इत्यर्थः । अनुस्वारपरसवर्णाविति । नकारस्य 'नश्च-' इत्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः । 'न पदान्त-' इति निषेधानल्लोपः स्थानिवत् । ढस्य लोपपक्षे उदाहरति शिण्ढीति । ढस्य लोपाभावे उदाहरति शिण्ड्ढीति । वस्तुतस्तु सानुस्वार एव पाठ उचितः, 'दीर्घादाचार्याणाम्' इत्युत्तरम् 'अनुस्वारस्य ययि परसवर्णः' 'वा पदान्तस्य' 'तोर्लि' 'उदः स्थास्तम्भोः पूर्वस्य' 'झयो होऽन्यतरस्याम्' 'शश्छोऽटि' इति षट्सुत्रपाठोत्तरं 'झलां जश् झशि' 'अभ्यासे चर्च' 'खरि च' 'वावसाने' 'अणोऽप्रगृह्यस्यानुनासिकः' इति पञ्चसूत्रपाठ इति भाष्य. संमताष्टध्यायीपाठे परसवर्णदृष्ट्या "झलां जश् झशि' इत्यस्य 'झरो झरि-' इत्यस्य चासिद्धत्वेन यय्परत्वाभावे परसवर्णाप्राप्तेरिति शब्देन्दुशेखरे स्थितम् । शिष्टात् लक्षणप्रतिपदोक्तप्रत्ययग्रहणपरिभाषयोः प्रवृत्त्या नलोपशव नास्तीत्याहुः । इन्धे । इन्से । नमो नकारस्यानुखारपरसवौँ । 'अनिदिताम्-' इति नलोपस्तु न
SR No.006150
Book TitleLaghu Siddhant Kaumudi Part 03
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages714
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy