________________
३७० ]
सिद्धान्तकौमुदी |
[ रुधादि
1
I
शिनषाणि । अशिनट् । लृदिस्वादत् । श्रशिषत् । पिष्लृ १४५२ संचूर्णने । शिषिवत् । पिनष्टि । भञ्ज १४५३ श्रमर्दने । भनक्ति । बभञ्जिथ बभक्थ भक्ता । भुज १४५४ पालनाभ्यवहारयोः । भुनक्ति । भोक्ला । भोषयति । अभुनक् । तृह १४५५ हिसि १४५६ हिंसायाम् । २५४५ तृणह इम् । ( ७-३ - १२ ) तृहः भमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि तृण्ढः । शिष्टम् शिष्ट । शिनवाणीति । आटः पित्त्वेन वित्वाभावात् 'श्नसोः -' इत्यल्लोपो नेति भावः । शिनडिति । लङस्तिपो हल्ड यादिलोपे षस्य जश्त्वमिति भावः । श्रशिष्टाम् अशिंषन् । अशिनद् अशिष्टम् । श्रशिष्ट । अशिनषम् श्रशिंष्व अशिष्म । भञ्जो श्रमर्दने । भनक्तीति । श्नमि भ न न् ज् ति इति स्थिते 'श्नान्न लोपः' इति नलोप इति भावः । भङ्कः भजन्तीत्याद्यूत्यम् । भारद्वाज - नियमात्थलि वेडिति मत्वाह बभञ्जिथ, बभक्थेति । भङ्क्तेति । अनिडिति भावः । भुज पालनेति । 'भुजोऽनवने' इति तङ् वक्ष्यते - भुङ्क्ते भुञ्जाते इत्यादि । तृह हिसि हिंसायाम् । श्राद्य ऋदुपधः । सेट् । श्रमि कृते
त्वे तृणद्द् ति इति स्थिते तृणह इम् । तृणह इति षष्ठी । कृतश्नमः तृहधातोर्निर्देशः । ' नाभ्यस्तस्य -' इत्यतः पितीति 'उतो वृद्धिः -' इत्यतो हलीति चानुवर्तते । फलितमाह गृहः श्रमि कृते इति । मित्त्वादन्त्या दचः परः । श्रमि कृते इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन नम् बाध्येत, 'सत्यपि संभवे बाघनं भवति' इति न्यायात् । अन्यथा 'ब्राह्मणेभ्यो दधि दीयताम्, तक्रं कौरिडन्याय' इत्यत्र तक्रेण दधि न बाध्येत । श्नमा शप् च न बाध्येत, देशभेदेन उभयसंभवादिति भावः । तृणेढीति । तृणद्द् ति इति स्थिते इमागमे श्राद्गुणे तृणेह् ति इति स्थिते ढत्वधत्वष्टुत्वढलोपा इति भावः । तृण्ढ इति । तसि श्रमि कृते, तृणद्द् तस् इति स्थिते, तसः प्रपित्त्वादिमागमाभावे 'नसोः -' इत्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः । तूंहन्ति । तृणेति तृगढः तृण्ढ । तृ भवति । अल्लोपस्य सिद्धवदत्र-' इत्यसिद्धत्वात्स्थानिवत्त्वाद्वा । भओ । श्रोत्किरणं निष्ठानत्वार्थम् । भग्नः । भुज पालनादौ । 'भुजोऽनवने' इत्यात्मनेपदं वक्ष्यते । भुङ्क्ते । भुञ्जते । तृणह इम् । तृहू इति वक्तव्ये सश्नमो ग्रहणं विशेषविहितेन इमा श्रमो बाधो माभूदित्येवमर्थम् । न च तौदादिकस्य तृह इत्यस्य व्यावृत्त्यर्थमेवास्त्विति शङ्खयम्, ततः परस्य हलादेः पितः सार्वधातुकस्य विकरणेन व्यवधानात् । 'नाभ्यस्तस्याचि पिति-' इत्यतः पितीति 'उतो वृद्धि:-' इत्यतो इलीति च वर्तते, तदाह इलादौ पितीति । ' प्रत्ययलोपे प्रत्ययलक्षणम्' इति सूत्रस्थभाष्यकारीयनिष्कर्षे तु हलीति नानुवर्तते किं तु पितीति अनुवर्तत एव । तेन तृढ इत्यत्र नातिप्रसङ्गः । न