________________
प्रकरणम् ४६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६७
अथ तिङन्ते रुधादिप्रकरणम् ॥ ४६॥
रुधिर् ११३८ प्रावरणे । नव स्वरितेत इरितश्च । २५४३ रुधादिभ्यः श्नम् । (३-१-७८) शपोऽपवादः । मित्वादन्त्यादचः परः। नित्यत्याद्गणं बाधते । रुणद्धि । 'श्नसोरखोपः' (सू २५६६ )। णस्वस्यासिद्धत्वादनुवारः । परसवणंः । तस्यासिद्धत्वापणत्वं न । 'न पदान्त-' (सू ५१) इति सूत्रेणानुस्वारपरसवर्णयोरलोपो न स्थानिवत् । रुन्छः । रुन्धन्ति । रुन्द्धे । रोद्धा। रोस्यति । रोस्स्यते । रुणधु, रुन्द्वात् । रुन्छि । रुणधानि । रुणधै । अरुणत् अरुन्द्वाम् । अरुणत् , अरुणः। अरुणधम् । अरुधत् , अरौत्सीत् , अरुद्ध ।
___ अथ श्नविकरणा धातवो निरूप्यन्ते । रुधादिभ्यः श्नम् । कर्बर्थे सार्वधातुके परे रुधादिभ्यः श्नम्प्रत्ययः स्यात् स्वार्थे इत्यर्थः, तदाह शपोऽपवाद इति । श्नामे शमावितौ । मित्त्वस्य फलमाह मित्त्वादन्त्यादचः पर इति । प्रत्ययत्वात् शकारस्येत्संज्ञा । शकारनिर्देशस्तु 'श्नसोरल्लोपः' 'नान्नलोपः' इत्यत्र विशेषणार्थः । न तु सार्वधातुकसंज्ञार्थः, फलाभावात् । न च 'सार्वधातुकमपित्' इति ङित्त्व गुणनिषेधः फलमिति शङ्कथम् , नमः पूर्वस्य इगन्तस्य अङ्गत्वाभावादेव गुणाप्रसक्तेः । ननु नमः प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् श्नमि रोणद्धि इति स्यादित्यत आह नित्यत्वाद्गणं बाधत इति । कृते अकृते च गुणे प्रवृत्तः श्नम् नित्यः । तस्मिन् सति लघूपधत्वाभावान गुण इति भावः। रुणद्धीति । रुनध् ति इति स्थिते 'भषस्तथो:-' इति धत्वे णत्वमिति भावः । रुनध् तस् इति स्थिते प्रक्रियां दर्शयति सोरल्लोप इति। क्ङिति सार्वधातुके तद्विधेरिति भावः । रुन्धु तस् इति स्थिते नस्य णत्वमाशङ्कयाह णत्वस्यासिद्धत्वादिति । ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह तस्यासिद्धत्वादिति। परसवर्णसंपन्ननस्येत्यर्थः । नन्विह अल्लोपस्र्ये 'अचः परस्मिन्-' इति स्थानिवत्त्वात् कथमनुवारपरसवर्णावित्यत आह न पदान्तेति । रुन्द्ध इति । 'झषस्तथोः-' इति धः। रुन्धन्तीति।रुणत्सि रुन्द्धः रुन्छ । रुणमि रुन्ध्वः रुन्ध्मः। रुन्द्धे इति । रुन्धाते रुन्धते । रुन्त्से रुन्धाथे रुन्द्ध्व । रुन्धे रुन्ध्वहे रुन्धमहे । रुरोध । रुरोधिथ । अरुणदिति । लङि हल्ङ्यादिना तिपो लोपः । धस्य चर्वविकल्पः ।
__रुधादिभ्यः श्नम् । प्रत्ययत्वेऽपि मित्त्वादन्यादचः परः। प्रत्ययसंज्ञाफलं तु शस्येत्संज्ञा । शस्योचारणं तु 'श्नसोरल्लोपः', 'नामलोपः' इत्यत्र विशेषणार्थ न तु सार्वधातुकसंज्ञार्थ फलाभावात् । न चापित्सार्वधातुकस्य ङित्त्वे गुणनिषेधः फलमिति शङ्कथम् , इगन्तस्याङ्गत्वाभावात् । अरुण इति । सिपि दश्चेति वा ।