________________
३६६ ]
सिद्धान्तकौमुदी। [ तुदादिअमुवाताम् । लुप्लु १४३१ छेदने । लुम्पति । लुम्पते। अलुपत् , अलुप्त । विद्ल १४३२ लाभे । विन्दति, विन्दते । विवेद, विविदे। न्याघ्रभूत्यादिसते सेटकोऽयम् । वेदिता। भाष्यादिमतेऽनिटकः । वेत्ता । परिवेत्ता । परिवर्जने । ज्येष्ठ परित्यज्य दारानग्नींश्च लन्धवानित्यर्थः । तृन्तृचौ । लिप १४३३ उपदेहे । उपदेहो वृद्धिः । लिम्पति, लिम्पते । लेता । 'लिपिसिचि-' (सू २४१८) इत्यङ् । तङि तु वा । अलिपत् , अलिपत, अलिप्त । षिच १४३४ क्षरणे । सिञ्चति, सिबते । असिचत् , असिचत, असिन । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषच ।
अथ त्रयः परस्मैपदिनः । कृती १४३५ छेदने । कृन्तति । चकर्थ । कर्तिता । कतिष्यति, कस्य॑ति । अकर्तीत् । खिद १४३६ परिखाते । खिन्दति । चिखेद । खेता । अयं दैन्ये दिवादी रुधादौ च । पिशि १५३७ अवयवे । पिंशति । पेशिता । श्रयं दीपनायामपि। 'स्वष्टा रूपाणि पिंशतु' वृत् । मुचादयस्तुदादयश्च वृत्ताः।
॥ इति तिङन्ते तुदादिप्रकरणम् ॥
-
लिप उपदेहे । तङि तु वेति । 'आत्मनेपदेष्वन्यतरस्याम्' इत्यनेनेति शेषः । षिच क्षरणे । अभिषिञ्चतीति । 'उपसर्गात्सुनोति-' इति षः । अभ्यषिश्वदिति 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । अभिषिषेचेति । 'स्थादिष्वभ्यासेन-' इति षः।
___ कृती छेदन इति । इदित्त्वं 'वीदित । इत्येतदर्थम् । 'सेऽसिचि-' इति वेडिति मत्वाह कर्तिष्यति, कर्व्यतीति । पिशि अवयव इति । अवयवक्रियायामित्यर्थः । रूपाणि पिंशत्विति । प्रकाशयत्वित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां शविकरणं समाप्तम् ।
संश्लेषणे कर्जभिप्रायेऽपि परस्मैपदार्थः । षिच क्षरणे । षिचिरिति केचिदिरितं पठन्ति । तत्तु फलाभावादुपेक्ष्यम् । इह 'लिपिसिचिह्वश्च' इति च्लेर विधीयते स चाप्राप्तविधिः। इरित्त्वे तु विकल्पेन प्राप्तौ नित्यार्थो विधिरिति फलाभावः । पिंशत्विति । दीपयत्वित्यर्थः । इति तुदादयः ।