________________
प्रकरणम् ४८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६५ कर्जभिप्रायेऽपि फले परस्मैपदार्थः पुन:पाठः । षद्ल १४२७ विशरणगत्यवसादनेषु । सीदति इत्यादि भौवादिकवत् । इह पाठो नुन्त्रिकल्पार्थः । सीदती, सादन्ती । ज्वलादौ पाठस्तु णार्थः । सादः। स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः। शद्लू १४२८ शातने । स्वरार्थ एव पुनः पाठः । शता तु नास्ति । 'शदेः शितः' (सू २३६२) इत्यात्मनेपदोक्नेः ।।
अथ षट स्वरितेतः। मिल १४२६ संगमे । मिल संश्लेषणे इति पठितस्य पुनः पाठः कञभिप्राये तर्थः । मिलति, मिलते। मिमेल, मिमिले । मुलु १४३० मोक्षणे । २५४६ शे मुचादीनाम् । (७-१-५६ ) नुम् स्यात् । मुञ्चति, मुञ्चते । मोक्का । मुच्यात् , मुक्षीष्ट । अमुचत् , अमुक्त धातुर्णोपदेशः । ननु तनादिगण एवास्मिन् स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत
आह कत्रभिप्रायेऽपीति । षद्लुधातोर्वादौ पठितादेव सीदति इत्यादिसिद्धेः इह पाठो व्यर्थ इत्यत आह इह पाठ इति । सीदन्ती इति शविकरणात् शत्रन्ताद् डीपि 'आच्छीनद्यो:-' इति नुम्विकल्पार्थ इह पाठ इत्यर्थः । भ्वादावेव पाठे तु 'शपश्यनोर्नित्यम्' इति नित्यो नुम् स्यादिति भावः । तर्हि भ्वाद्यन्तर्गणे ज्वला. दावस्य पाठो व्यर्थ इत्यत आह ज्वलादाविति । 'ज्वलितिकसन्तेभ्यः-' इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाहृत्य दर्शयति साद इति । उभयत्र पाठस्य फलान्तरमाह स्वरार्थश्चेति । तदेव विशदयति शबनुदात्त इति । 'अनुदात्तौ सुप्पितौ' इति पित्स्वरेणेति भावः । शस्तूदात्त इति । 'प्रत्ययः' 'पायुदात्तश्च' इत्यनेनेति भावः । ननु 'शद्ल शातने' इत्यस्य भ्वादौ पाठादेव सिद्ध इह पाठो व्यर्थ इत्यत आह स्वरार्थ एवेति । प्रागुक्तपित्त्वापित्त्वकृतखरभेदार्थ एवेत्यर्थः । ननु शत्रन्ताद् डीपि उक्तरीत्या नुम्विकल्पार्थोऽपि कुतो न स्यादित्यत आह शता तु नास्तीति । शदेर्लटः शानजेव, नतु शत्रादेश इत्यर्थः । कुत इत्यत आह शदेः शित इतीति । मिल संगमे । पठितस्येति । अस्मिन्नेव तुदादिगणे परस्मैपदिषु पठितस्येत्यर्थः। तङर्थ इति । पूर्वत्र पाठस्तु कञभिप्रायेऽपि परस्मैपदार्थ इत्यर्थः । मुच्लू मोक्षणे। शे मुचादीनाम् । नुम् स्यादिति । शेषपूरणमिदम् । 'इदितो नुम्-' इत्यतस्तदनुवृत्तेरिति भावः । मुक्षीष्टेति । 'लिङ्सिचौ-' इति कित्त्वान गुण इति भावः । अमुचदिति । लुदित्त्वादविति भावः । लुङि तब्याह अमुक्तेति । 'झलो झलि' इति सिज्लोप इति भावः । बेव। तेन विच्छायन्तीति नित्यमेव 'शपश्यनो:-' इति नुम् । पठितस्येति । अस्मिन्नेव गणे परस्मैपदिषु पठितस्येत्यर्थः । तङर्थ इति । पूर्वपाठस्तु