________________
प्रकरणम् ४८] बालमनोरमा तत्त्वबोधिनीसहिता। [३६३ गरिता, गलिता । इङ् १४११ आदरे । श्राद्रियते श्राद्रियेते । पादने । आदद्विषे । श्रादर्ता । आदरिष्यते । प्रादृषीष्ट । पाहत भाषाताम् । एङ् १४१२ अवस्थाने । ध्रियते ।
अथ परसैपदिनः षोडश । प्रच्छ १४१३ जीप्सायाम् । पृच्छति । पप्रच्छ पप्रच्छतः । पप्राच्छिथ, पप्रष्ठ । प्रष्टा । प्रच्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः । सृज १४१४ विसर्ने । 'विभाषा सृजिदृशोः' (सू २४०४ ) ससर्जिथ, सस्रष्ठ । स्रष्टा । सूचयति । सृजिशोभल्यमकिति' (सू २४०५) इत्यमागमः। इत्यनुवर्तते । 'कृपो से लः' इत्यतो रो ल इति तदाह गिरतेरिति । अजादाविति । 'धातोः कार्यमुच्यमानं तत्प्रत्यये भवति' इति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेति 'मृजेर्वृद्धिः' इति सूत्रभाष्ये स्पष्टम् । दृङ् आदर इति । ह्रस्वान्तोऽयम् । अनिट् । आद्रियते इति । रिङ् इयङ् । 'ऋद्धनोः स्ये' इति इंटं मत्वाह आदरिष्यते इति । आदृषीष्टेति । 'उश्च' इति कित्त्वान्न गुणः । आतेति । 'ह्रस्वादङ्गात्' इति सलोपः । प्रच्छ शीप्सायामिति । ज्ञातुमिच्छा ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य उित्त्वाद् 'अहिज्या-' इति रेफस्य संप्रसारणम् ऋकारः पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात् परत्वेन कित्त्वाभावान्न संप्रसारणमिति भावः। भारद्वाजनियमात्थलि वेडिति मत्वाह पप्रच्छिथ, पप्रष्ठेति । इडभावपक्षे वश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति षः, तकारस्य ष्टुत्वेन टः । न च षत्वस्यासिद्धत्वात् पूर्व तुकि ततः छस्य षत्वे, ष्टुत्वयोः प्रष्टेति स्यादिति वाच्यम्, व्रश्चेति सूत्रे सतुक्कस्य छस्य प्रहणात् । किरादयो वृत्ता इति । न चैवं सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहणं व्यर्थ किरादीनां पञ्चत्वादिति वाच्यम् , तस्य 'रुदादिभ्यः सार्वधातुके' इत्युत्तरार्थत्वात् । सृज विसर्गे। अनिट् । सृजति। ससर्ज ससृजतुः। अजन्ताकारवत्त्वाभावेऽपि इति गुणः। दृङ् आदरे । 'तथाद्रियन्ते न बुधाः सुधामपि' इति श्रीहर्षः। प्रच्छ ज्ञीप्सायाम् । ज्ञातुमिच्छा ज्ञोप्सा। अत्र ज्ञपिर्शाने । 'प्राप्ज्ञप्य॒धामीत्','अत्र लोप:-' इत्यभ्यासलोपः । एलि । प्रच्छकः । पृच्छाशब्दात् 'तत्करोति-' इति णिजन्ताएण्वुलि तु पृच्छकः । पृच्छाशब्दस्तु भिदादेराकृतिगणत्वादडि संप्रसारणे बोध्यः किरादयो वृत्ता इति । एते च 'भूषाकर्मकिरादिसनाम्' इति वक्ष्यमाणयक चिणादिनिषेधवार्तिके उपयोक्ष्यन्ते। 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चभ्य इत्येतदुत्तरसूत्रेऽनुवृत्त्यर्थमिति बोध्यम् । ससर्जिथेति । 'विभाषा सृजिदृशोः' इति थलि वेट् ।