________________
३६२ ] सिद्धान्तकौमुदी। [ तुदादिमम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत ।
अथ परस्मैपदिनः सप्त । रि १४०४ पि १४०५ गतौ । लघूपधगुणादन्तरङ्गस्वादियङ् । रियति । पियति । रेता। पेता। धि १४०६ धारणे । ति १४०७ निवासगत्योः। षू १४०८ प्रेरणे । सुवति । सविता। क १४०६ विक्षेपे। किरति किरतः । चकार चकरतुः । करिता, करीता । कीर्यान् । अकारीत् । २५३६ किरती लवने (६-१-१४०) उपाकिरणः सुडागमः स्थाच्छेदेऽर्थे । उपस्किरति । 'अडभ्यासव्यवायेऽपि सुट कारपूर्व इति वक्तव्यम्' ( वा ३६६६) । उपास्किरत् उपचस्कार । २५४० हिंसायां प्रतेश्च । (६-४-१४१) उपात्प्रतेश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति । गृ १४१० निगरणे । २५४१ अचि विभाषा (८-२-२१) गिरतेः रेफस्य खत्वं वा स्यादजादौ । गिरति, गिलति । जगार, जगाल । जगरिथ, जगलिथ । विति भावः। ऋदन्तत्वाद् भारद्वाजमतेऽपि नेडियाह ममर्थेति । मम्रिवेति । क्रादिनियमादिट् । मर्ता । 'ऋद्धनोः स्ये' इति इटं मत्वाह मरिष्यतीति । रिपि गताविति । द्वाविमावनिटौ । ननु शे कृते तिपमाश्रित्य इकारस्य परत्वालघूपधगुणः स्यादित्यत आह अन्तरङ्गत्वादियङिति । क विक्षेप इति । दीर्घान्तोऽयं सेट् । किरतीति । 'ऋत इद्धातोः' इति इत्त्वं रप त्वम् । चकरतुरिति । कित्त्वेऽपि 'ऋच्छत्यृताम्' इति गुण इति भावः । 'वृतो वा' इति मत्वाह करिता, करीतेति । किरती लवने । उपादिति । 'उपात् प्रतियत्न-' इत्यतस्तदनुवृत्तेरिति भावः । सुडागम इति । 'सुट् कात्पूर्वः' इत्यतस्तदनुवृत्तेरिति भावः । 'अडभ्यासव्यवायेऽपि' इति वार्तिकम् । 'सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम् । हिंसायां प्रतेश्च । चकारादुपादिति समुच्चीयते, तदाह उपादिति । गृ निगरण इति । निगरणं भक्षणम् । सेट् । अचि विभाषा । 'यो यलि' इत्यतो प्र तस्य कथमनुदात्तता स्यादिति शङ्कथम् , ङित्त्वसामर्थ्यात् सिजलोपस्यासिद्धत्वं नेति सुवचत्वात् । अमृतेत्यत्राडागमस्यैवोदात्तत्वाद् मृडो ठित्त्वस्य न किंचित्प्रयोजनमिति अगानिवारणाय मा हि मृतेति माङः प्रयोगे 'तिङतिङः' इति तेडन्तनिघातेऽपि डित्त्वं व्यर्थमेव स्याद् इति हिशब्दप्रयोगः । हिप्रयोगे तु 'हि च' इत्यनेन तिङ. न्तनिघातनि धादिष्टखरः सिध्यतीति बोध्यम् । रि पि गतौ । परत्वाल्लघूपधगुणः स्यादित्याशङ्कायामाह अन्तरङ्गत्वादिति । किरती लवने । 'उपात्प्रतियत्ने' इति सूत्रादुपादिति वर्तते । लवने किम् , उपकिरति । हिंसायां प्रतेश्च । चादुपात् 'उरोविदारं प्रतिचस्करे नखैः' इति माघः । कर्मणि लिट् । 'ऋच्छत्यताम्'