________________
३६० ] सिद्धान्तकौमुदी। [ तुदादि१३१६ भेदने । पोष्ठयादिः । णिल १३६० गहने। हिल १६६१ भावकरणे। शिल १३६२ षिल १३६३ उज्छे । मिल १३६४ श्लेषणे । लिख १३६५ अक्षरविन्यासे । जिलेख । कुट १३६६ कौटिल्ये । 'गाङ्कुटादिभ्यः-' (स् २४६१) इति हित्वम् । चुकुटिथ । 'अमिणत्' इति किम्-चुकोट । कुटिता। पुट १३६७ संश्लेषणे । कुच १३६८ संकोचने । गुज १३६६ शब्दे । गुड १३७० रक्षायाम् । डिप १३७१ क्षेपे । छुर १३७२ छेदने । 'न भकुर्छराम्' (सू १६२६ ) इति न दीर्घः । छुर्यात् । स्फुट १३७३ विकसने । स्फुटति । पुस्फोटः । मुट १३७४ प्राक्षेपमर्दनयोः । त्रुट १३७५ छेदने । 'वा प्राश-' (सू २३२१) इति श्यन्वा। त्रुध्यति, त्रुटति । तुत्रोट । त्रुटिता । तुट १३७६ कलहकर्मणि । तुटति । तुतोट । तुटिता । चुट १३७७ छुट १३७८ छेदने । जुड १३७६ बन्धने । कड १३८० मदे । लुट १३८१ संश्लेषणे । कृड १३८२ घनत्वे । घनत्वं सान्द्रता । चकर्ड । कृडिता । कुड १३८३ बाल्ये । पुड १३८४ उस्सर्गे । घुट १३८५ प्रतिघाते । तुड १३८६ तोडने । तोडनं भेदः। थुड १३८७ स्थुड १३८८ संवरणे । थुडति । तुथोड । तुस्थोड। खुड छुड इत्येके । स्फुर १३८६ स्फुल १३६० संचलने । स्फुर स्फुरणे, स्फुल संचलने इस्येके । २५३७ स्फुरतिस्फुलत्योनिनिविभ्यः । (८-३-७६) षत्वं वा स्यात् । निष्फुरति, निःस्फुरति । स्फर भावः । एवं अस्ताढीम् । अताराम् । स्फुर स्फुरणे । स्फुरतिस्फुलत्योः । मूर्धन्य इत्यधिकृतम्। 'सिवादीनां वा-' इत्यतो वेत्यनुवर्तते, तदाह षत्वं वा तिल गतौ तेलतीति शपि गतम्। लिख अक्षरविन्यासे । लिखितुं लिखिष्यतीति प्रयोगः प्रामादिकः। यत्त कैश्चित् कुटस्यादिः कुटादिः कुट आदियेषां ते कुटादयः कुटादिश्च कुटादयश्च कुटादय इत्येकशेष खीकृत्य लिखितुमित्यादि समर्थितम् । तदसत् । लेखिता लेखिष्यतीत्यादौ गुणनिषेधापत्तेः । न चेष्टापत्तिः। वृत्तिकारहरदत्तादिप्रन्थविरोधात् । 'गाङ्लिखादिभ्यः' इत्येव सूत्रितव्ये कुटादिभ्य इति पठनस्य स्वारस्यभङ्गापत्तेश्च । किं च 'शकुनिष्वालेखने' इति सौत्रप्रयोगोऽपि विरुध्यत इति प्रागेवोक्तमित्यास्तां तावत् । लिखापयतीति प्रयोगस्तु मनोरमायामित्थं समर्थितः । अपनम् आपः प्राप्तिः लिखस्यापो लिखापस्तं करोति । स्फुट विकसने । स्फुटत्यर्थो. ऽस्मादिति स्फोटः स च पदस्फोटवाक्यस्फोटादिभेदेनानेकविधः । कड मदे । कुटादिकार्याभावेऽपि डान्तानुरोधेनायं कुटादौ पठितः । भ्वादौ पठितस्य पुनरत्र पाठः शतरि नुविकल्पार्थः। पूर्व पाठस्तु उच्छतीत्यादाविव कडतीत्यादौ श्रायुदात्तार्थः । स्फुरतिस्फुलत्योः । 'सिवादीनाम्-' इत्यतो वेत्यनुवर्तनादाह षत्वं वा