________________
३५६ ] सिद्धान्तकौमुदी।
[ तुदादिइति वस्योत्वं न । व्रश्चिता, ब्रष्टा । व्रश्चिष्यति, वक्ष्यति । वृश्च्यात् । अवश्चीत् , प्रवासीत् । ग्यच १२६३ व्याजीकरणे । विचति । विग्याच विविचतुः। ग्यचिता । व्यचियति । विच्यात् । अग्याचीत् , अव्यचीत् । 'ग्यचेः कुटादित्व. मनसि' ( वा ३४५६ ) इति तु नेह प्रवर्तते । 'अनसि' इति पर्युदासेन कृन्मात्र. विषयत्वात्। उछि १२९४ उम्छे। उम्छति । उछी १२६५ विवासे। उच्छति । ऋग्छ कत्वाश्रवणात् कथं स्थानिवत्त्वमिति वाच्यम्, श्रापादपरिसमाप्तेरमाधिकारः इत्यभ्युपगम्य अङ्गाक्षिप्तप्रत्ययनिमित्तकत्वाभ्युपगमात् । 'लक्ष्ये लक्षणरय सकृदेव प्रवृत्तिः' इति न्यायस्तु 'न संप्रसारणे-' इति निषेधादेव न स्थानिभेदे प्रवर्तते इति ज्ञायते । अत एव सुद्धघपास्य इत्यादौ धकारस्य द्वित्वे कृते पूर्वधकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तां तावत् । आशीलिब्याह वृश्च्यादिति । कि वात् संप्रसारणमिति भावः । अवश्चीदिति । ऊदित्त्वादिट्पक्षे 'नेटि' इति हलन्तलक्षणवृद्धिनिषेधः । इडभावे हलन्तलक्षणवृद्धि मत्वाह अवाक्षीदिति । अवश्च् सीत् इति स्थिते हलन्तलक्षणा वृद्धिः । श्चुत्वस्यासिद्धत्वात् 'स्को:-' इति सलोपः । 'वश्व-' इति चस्य षः, तस्य 'षढोः-' इति कः, सस्य ष इति भावः । 'नकारजावनुस्वारपञ्चमी झलि धातुषु । सकारजः शकारः श्चेट्टिवर्गस्तवर्गजः ॥' इत्याहुः । व्यच व्याजीकरणे। सेट् । शे 'प्रहिज्या-' इति संप्रसारणं मत्वाह विचतीति । विव्याचेति । 'लिव्यभ्यासस्य-' इत्यभ्यासयक रस्य संप्रसारणम् । 'न संप्रसारणे-' इति न वकारस्य । विविचतुरिति । कित्त्वाद् 'अहिज्या-' इति संप्रसारणे कृते द्वित्वादीति भावः। विव्यचिथ ।' विविचिव । विच्यादिति । आशीर्लिकि कित्त्वाद्यकारस्य संप्रसारणम् । 'अतो हलादेः-' इति वृद्धिविकल्पं मत्वाह अव्याचीत्, अव्यचीदिति । ननु 'व्यचेः कुटादित्वमनसि' इति व्यः कुटादित्ववचनात् व्यचिता, व्यचिष्यति, इत्यादावपि 'गाङ्कुटादिभ्यः-' इति ङित्त्वात् संप्रसारणं स्यादित्यत आह व्यरिति । कृन्मात्रेति । अवधारणे मात्रशब्दः । 'उछि उञ्छे 'उछी विवासे' इति भ्वादी पठिती । इह तयोः गठस्तु शविकरणार्थः । तेन उच्छती उञ्छन्ती, उच्छती उच्छन्ती इति 'आच्छीनयो:-' इति नुम्विकल्पः तत्र तु 'ज्ञापकसिद्धं न सर्वत्र' इति स दोषः परिहियतामित्याहुः । अवश्चीदिति । ऊदित्त्वात्पक्षे इट् । 'वदव्रज-' इति वृद्धेः 'नेटि' इति निषेधः । अवाक्षीदिति । 'स्कोः इति सलोपः। 'वश्च-' इति षः। षढोरिति कः । ततः सस्य षत्वम् । न चाव सकारस्य कथं लोप इति वाच्यम् , धातुपाठे सकारस्य पाठात् । तदाहुः'नकारजावनुस्वारपञ्चमी झलि धातुषु । सकारजः शकारश्च पाहवर्गस्तवर्गजः' इति।