________________
प्रकरणम् ४८] बालमनोरमा-तत्त्वबोधिनीसहिता [३५५
अथ परस्मैपदिनः । मो वश्चू १२६२ छेदने । 'अहिज्या-' (स २४१२) वृश्चति । वनश्च ववश्चतुः । वव्रश्चिय, वव्रष्ठ । 'लिव्यभ्यासस्य-' (सू २४०८) इति संप्रसारणं रेफस्य ऋकारः । 'उरत्' (सू २२४४ )। तस्य च 'प्रचः परस्मिन्-' (सू १०) इति स्थानिवद्रावाद् 'न संप्रसारणे-' (सू ३१३)
___ व्रश्चधातुरूदित्त्वाद्वेट् । अहिज्येति । लटि व्रश्च् अति इति स्थिते शस्यापित्त्वेन जित्त्वाद् 'अहिज्या-' इति रेफस्य संप्रसारणमृकारः पूर्वरूपं चेति भावः, तदाह वृश्चतीति । वृश्चतः वृश्चन्तीत्यादि । वव्रश्चेति । णलि रूपमिदम् । थलि च प्रकिया अनुपदं वक्ष्यते । अतुसादौ संयोगात्परत्वेन कित्त्वाभावाद् 'अहिज्या-' इति न संप्रसारणम्, तदाह ववश्चतुरिति । ऊदित्त्वात्यलादौ वेट , तदाह वव्रश्चिथ, वव्रष्ठेति । धातुपाठे व्रश्चू इत्यत्र व्रस् च् इति स्थिते सस्य श्चुत्वेन शकारनिर्देशः । तथा च वव्रश्च इति स्थिते श्चुत्वस्यासिद्धत्वात् 'स्कोः-' इति सकारलोपे, चस्य 'वश्च-' इति षत्वे, ष्टुत्वेन थस्य ठत्वे, वव्रष्ठति रूपम् । वनश्चिव । ननु णलि थलि च अकिति द्वित्वे कृते 'लिव्यभ्यासस्य-' इत्यभ्यासावयवयोर्वकाररेफयोयोरपि संप्रसारणं स्यात् । न च 'न संप्रसारणे संप्रसारणम्' इति वकारस्य संप्रसारणनिषेधः शयः, पूर्व वकारस्य संप्रसारणसंभवादित्यत आह लिट्यभ्यासेति । 'न संप्रसारणे-' इति निषेधादेव ज्ञापकात् प्रथमं रेफस्य ऋकारः संप्रसारणमित्यर्थः । तस्य संप्रसारणसंपलस्य कारस्य अकारविधि स्मारयति उरदिति । ननु ऋकारस्य प्रकारे कृते वकारस्य संप्रसारणं स्यात्, संप्रसारणपरकत्वविरहेण 'न संप्रसारणे-' इति निषेधाप्रवृत्तेरित्यत आह तस्य चेति । अकारस्येत्यर्थः । न च उरदत्त्वस्य परनिमित्तपरस्मिन्-' इति स्थानिवद्भावप्रवृत्त्या संप्रसारणपरत्वमाश्रित्य वकारस्य संप्रसारणनिषेधः कथंचिदुपपद्यते । परस्य संप्रसारणम् , परस्य यणः संप्रसारणमिति वा सूत्रिते परस्यैव संप्रसारणं न तु पूर्वस्य यण इत्यर्थलाभाद् उक्तक्लेशं विनैव वव्रश्च यून इत्यादि सर्व सिध्यति । न चैवं 'लिटि वयो यः' 'वेमः' इत्यत्र संप्रसारणनिषेधाय नमोऽनुवृत्तिर्न लभ्येतेति वाच्यम् , 'न लिटि वयो यः' इति सूत्रकरणे बाधकामावाद् 'न संप्रसारणे-' इति यथाश्रुतसूत्रप्रणयने त्वन्ततो मात्राद्वयस्याधिक्याच्च । एवं च लघूपायनेष्टसिद्धौ ‘न संप्रसारणे-' इति सूत्रारम्भो ज्ञापयति निमित्तभेदाभावेऽपि स्थानिभेदे पुनरपि कार्य प्रवर्तते इति । तथा च सुध्युपास्य इत्यादौ धकारस्य द्वित्वे कृते पुनरुकारात्परस्य दकारस्यापि द्वित्वमिति प्रक्रियाकारादिव्याख्यान सूत्रकाराभिप्रेतमेव । यदि स्थानिभेदेऽपि निमित्तैक्ये कार्याप्रवृत्तिः क्वचिद् दृश्यते