________________
३५४ ] सिद्धान्तकौमुदी। [तुदा दे. प्रकृष्ट प्रकृक्षाताम् प्रकृक्षत । प्रकृक्षत अकृताताम् अकृपन्त । ऋषी १२८७ गतौ । परस्मैपदी। ऋषति । श्रानर्ष । जुषी १२८८ प्रीतिसेवनयोः । पात्मनेपदिनचस्वारः । जुषते । प्रोविजी १२८६ भयचलनयोः। प्रायेणायमुत्पूर्वः । उद्विजते । २५३६ विज इट् । (१-२-२) विजेः पर इडादिः प्रत्ययो द्वित् । उद्विजिता । उद्विजिष्यते । प्रो बजी १२६० भो लस्जी १२६१ बीटायाम् । बजते । लेजे । लजवे । बलजे।। आह अकृक्षदिति । कित्त्वादमागमो गुणश्च नेति भावः । तङीति । तलि सिच्पक्षे अकृष् स् त इति स्थिते 'लिङ्सिचौ-' इति कित्त्वादम् नेत्यर्थः। गुणोऽपि नेति ज्ञेयम् । अकृष्टति । 'झलो झलि' इति सिज्लोप इति भावः। अकृक्षतेति । सिच्पते अनतः परत्वाददादेश इति भावः । क्सादेशपक्षे प्राह अकृक्षतेति । कित्त्वादम् नेति भावः । अकृक्षन्तेति । क्सादेशपक्ष अ कृक्ष झ इति स्थिते अच्परकत्वाभावात् 'क्सस्याचि' इत्यकारलोपाभावादतः परत्वाददादेशाभावे अन्तादेश इति भावः । ऋषी गताविति । सेट् । आनर्षिथ । आनर्षि । अर्षिता । आर्षीत् । ओ विजी भयेति । सेट् । उद्विजितेत्यादौ लघूपधगुणे प्राप्ते विज इट् । 'गाकुटादिभ्यः-' इत्यतो विदित्यनुवर्तते, तदाह विजेः पर इत्यादि । उद्विजिता । उद्विजिषीष्ट । उदविजिष्ट । स्वीकारात् । विज इद । इह 'वृद्धिर्यस्य-' इति सूत्रान्मण्ड कप्लुत्या यस्यादिरिति अनुवर्तते तेन इडादिप्रत्ययो लभ्यत इति मनोरमायां स्थितम् । नव्यास्तु इह इडित्यनेनोत्तमैकवचनं न गृह्यते । तथा च सति विजिषीयेत्यत्रैव स्यान्न तूद्विजितेत्यादौ । ततश्चेष्टसिद्धयर्थमिडागमो गृह्यते तस्य तु ङित्त्वं व्यर्थम् । तन्निमित्तगुणस्याप्राप्तेरतो लक्षणया इड्वान् गृह्यते । इट्प्रत्ययस्यादिरिति फलितार्थकथनमिडादिप्रत्ययो उिद्वदिति । एवं च इडादिरिति लाभाय यस्यादिरित्यनुवर्तनक्लेशो व्यर्थ एवेत्याहुः । इह प्रोविजीति तुदादिः रुधादिश्च गृह्यते न तु विजिर् पृथग्भ वे इति जुहोत्यादिाख्यानात् । यस्त्वत्र हरदत्तेन जुहोत्यादेराहणे हेतुरुक्तः तस्यानिटकत्वादिति । तदयुक्तम् । क्रादिनियमेन लिटि इटसंभवात् । न च तत्र कित्त्वेन गतार्थत्वादिटो वित्त्वं व्यर्थमिति वाच्यम् , अपिल्लिटः कित्त्वेऽपि विवेजियेत्यत्र पित्त्वेन ठित्त्वाभावात् । वतश्चेति । अत्र नव्याः–वव्रश्चेत्यादौ 'लिव्यभ्यासस्य-' इत्यभ्यासावयवयोयोरपि यणोः संप्रसारणप्रसको पूर्वस्य यणो निषेधाय 'न संप्रसारणे-' इति सूत्रं स्वीक्रियते । तता अतएव ज्ञापकात्परस्य प्रथमं संप्रसारणमिति परिकल्प्य आ पादपरिसमाप्तेराधिकार इति पक्षमभ्युपगम्य उरदत्वस्याङ्गाक्षिप्तप्रत्ययनिमित्तकत्वस्वीकाराद 'अचः