________________
प्रकरणम् ४८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५१ रेफास्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मिस्वादन्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोनिवृत्तिः । बभर्ज बभर्जतुः । बर्जिथ, बभष्ठ । बभर्जे। रेफादकार उच्चारणार्थः । रेफस्य उपधायाश्च स्थाने इति लभ्यते । 'आर्धधातुके' इत्यधिकृतम् , तदाह अस्जो रेफस्येत्यादिना । रमि मकार इत् अकार उच्चारगाथेः, तदाह मित्त्वादन्त्यादचः पर इति । तथा च रेफाकारादुपरि सका. रात् प्राग रेफ श्रागम इति फलितम् । भ्र र स् ज् अ इति स्थितम् । ननु रम आगमत्वे रोपधयोरिरि कथं स्थानषष्ठीनिर्देश इत्यत आह स्थानेति । स्थानं प्रसङ्गः । रेफस्य उपधागश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफः प्रयोज्यः । भकारादुपरि रेफः जकारात्प्राक्सकारश्च न प्रयोज्याविति लब्धम् । तथा च तयोनिवृत्तिः फलितेति भावः । एवं च भर्ज अ इति स्थिते द्वित्वादौ रूपमाह बमजेति । अतुसादावपि संयोगात्परत्वात्कित्त्वाभावाद् 'अहिज्या-' इति संप्रसारणं न भवति । भारद्वाजनियमत्थलि वेडिति मत्वाह बभर्जिथ, बभष्ठेति । इडभावनिर्देशस्य वैयर्थ्यमाशङ्कयाह निवृत्तिरिति । अयं भावः-स्थानविशेषलाभाय मित्त्वस्य करणान्न रोपघयोः स्थाने रम् भवति । यत्र ह्यनिर्धारितः स्थानषष्ठया निर्दिश्य विधीयते स तत्स्थाने भवति । यथा 'इको यणचि' इत्यादौ यणादिः । प्रकृते तु रमो निर्दिष्टस्थानिकत्वाद्रोपधयोः स्थाने न भवति । एवं चास्य आदेशागमत्वे भवतो यथा श्नमः प्रत्ययागमत्वे इति । श्रन्ये त्वेताहग व्याख्यानमयुक्तमिति मत्वा 'सनः क्तिचि' इत्यतो लोपमनुवर्त्य भ्रस्जो रोपधयोर्लोपः रम् तु आगम एवेत्याहुः। अपरे तु 'भ्रस्जो रसरन्यतरस्याम्' इत्येव सूत्रमस्तु। रसः ऋ इति च्छेदः । रस इति रेफाकारसकाराणां यः संघातस्तस्य ऋ इत्यादेशः स्यादित्यर्थः । ततश्च अक्किति भर्जको भर्जनं बभर्जेत्यादि सिध्यति । ऋकाराभावपक्षे तु भ्रज्जको भ्रजनं बभ्रजेत्यादि । क्लिति तु ऋकारपक्षे मृष्टिः भृज्यादित्यादि । तदभावे संप्रसारणे सति तदेव रूपम् । एवं च बरीभृज्यत इत्यादौ रीको रेफस्य निवृत्तिं वारयितुम् 'अनु. दात्तोपदेश-' इत्यत उपदेशग्रहणमनुवर्त्यमिदानीं तु नानुवर्त्यम् , क्ङिति रमागमं बाधित्वा संप्रसारणमिति पूर्वविप्रतिषेधश्च न कर्तव्य इति महदेव लाघवमित्याहुः । इदं च रसोर्वचनात्सिद्धमिति वार्तिकाशयवर्णनमेव न त्वपूर्वम् । वचनादित्यस्य वा ऋवचनादिति च्छेदः । भाष्यकारैस्तु ‘सूत्रं भिद्यते यथान्यासमेवास्तु' इति वदद्भिरस्यां कल्पनायां दुष्टत्वं सूचितं तच्च मनोरयामां स्पष्टमेव । तथा हि रेफाकारसकारसमुदायस्य ऋभावे पञ्च दोषाः। अपिल्लिटि बभर्जतुः बभर्जुरित्यादीष्यते, बभृजतुः बमृजुरित्यादि स्यात् । न चात्र गुणेन निर्वाहः । ऋभावे सति 'असंयोगाल्लिट् कित्'