________________
सिद्धान्तकौमुदी ।
अथ तिङन्ते तुदादिप्रकरणम् ॥ ४८ ॥
"
,
तुद् १२८१ व्यथने । इतः षट् स्वरिततः । २५३४ तुदादिभ्यः शः । ( ३-१-७७ ) तुदति, तुदते । तुतोद । तुतोदिथ । तुतुदे | तोता । श्रतौसीत् तुत । खुद १२८२ प्रेरणे । नुदति नुदते । नुनोद, नुनुदे । नोत्ता । दिश १२८३ श्रतिसर्जने । श्रतिसर्जनं दानम् । देष्टा । दित्तीष्ट । श्रदिक्षत्, श्रदिक्षत । भ्रस्ज १२८४ पाके । ' ग्रहिया -' ( सू १४१२ ) इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृजति, भुज्जते । २५३५ भ्रस्जो रोपधयो रमन्यतरस्याम् । ( ६-४-४७ ) भ्रस्जो
३५० ]
[ तुदादि
अथ शविकरणा धातवो निरूप्यन्ते । इत षडिति । 'ऋषी गतौ' इत्यतः प्रागित्यर्थः । तुदादिभ्यः शः । कर्त्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात् स्वार्थे इत्यर्थः । शबपवादः । तुदतीति । लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य पित्तत्वात् ' सार्वधातुकमपित्' इति ङित्त्वान्न गुण इति भावः । अजन्ताकारवत्त्वाभावात् क्रादिनियमाल्लिटि ल्यपि नित्यमिद्, तदाह तुतोदिथेति । तीत्तेति । अनिडिति भावः । तौत्सीदिति । हलन्तलक्षणा वृद्धिः । गुदधातुर्णोपदेशः । अनिट् । दिशधातुरप्यनिट् । देष्टेति । त्रश्चेति षत्वे ष्टुत्वम् । स्ये तु 'षढो:-' इति षस्य कत्वं च देक्ष्यति । दिक्षीष्टेति । 'लेसिचौ -' इति कित्त्वान्न गुणः । “शल इगुपधात् -' इति क्सं मत्वाह अविक्षत् श्रदिक्षतेति । भ्रस्ज पाके । अनिट् भ्रस्ज् अति इति स्थिते श्रह ग्रहिज्येति । ङित्त्वाद्रेफस्य संप्रसारणमृकारः पूर्वरूपं चेति भावः । भ्रस्ज् अ ति इति स्थिते श्राह सस्येत्यादि । णलि भ्रस्ज् अति इति स्थिते भ्रस्जो रोपधयोः । भ्रस्ज इत्यवयवषष्टी | रोपधयोरिति स्थानषष्ठी । रश्च उपधा च तयोरिति विग्रहः । त्रास्माभिरुपपादितम् । अन्ये त्वाहुः -- ' शतचक्रं यो ३ ह्यो वर्तनि:' इत्यत्र अ इति षष्ठयन्तमेव । 'घेर्डिति' इति गुणस्तु श्रहिशब्दस्य च्छान्दसत्वान्नेति । रिक्षि । एते षट् धातवः । एक एवाजादिरिति मते तु पञ्च धातवः ।
1
इति तत्त्वबोधिन्यां स्वादिप्रकरणम् ।
तुदतीति । परमपि लघूपधगुणं बाधित्वा नित्यत्वात् श इत्येके । अकृतव्यूहपरिभाषया गुणो न प्रवर्तत इत्यन्ये । भ्रस्ज पाके । भर्जनरूपः पाकोऽत्र धात्वर्थो न त्वोदनादेः पाकस्तत्र प्रयोगाभावादित्याहुः । भ्रस्जो इति केषांचित्पाठे तु 'प्रोदितश्च' इति निष्ठानत्वप्रसक्त्या मृष्टः भृष्टवानिति न सिध्येत् । भ्रस्जो रोपधयोः । रम्यकार उच्चारणार्थः । रमित्यस्यान्त्यादचः परत्वे 'रोपधयोः' इति षष्ठी