________________
प्रकरणम् ४७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३४७
रीष्ट, अवृत । धुम् १२५५ कम्पने । धुनोति । धुनुते । अधौषीत् । श्रधोष्यत् । दीर्घान्तो ऽप्ययम् । धूनोति, धूनुते । 'स्वरतिसूति-' ( सू २२७१ ) इति वेट् । दुधविथ, दुधोथ । किति लिटि तु 'श्रूयुक:-' ( सू २३८१ ) इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिद् । दुधुविव । 'स्तुसुधूभ्यः -' ( सू २३८१ ) इति नित्यमिट् । अधावीत्, अधविष्ट, अधोष्ट 1
1
अथ परस्मैपदिनः । टु दु १२५६ उपतापे । दुनोति । हि १२५७ गतौ वृद्धौ च । २५३० हिनुमीना । ( ६-४-१५) उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति । २५३१ हेरचङि । ( ७-३-५६ ) श्रभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्न तु चङि । जिघाय । पृ १२५८ प्रीतौ । पृणोति । पर्ता । स्पृ १२५६ प्रीतिपालनयोः । 'प्रीतिचलनयो:' इत्यन्ये । 'चलनं जीवनम्' इति स्वामी । स्पृणोति । पस्पार । स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयोऽपि छान्दसा इत्याहुः । श्राप्लु १२६० व्याप्तौ । श्राप्नोति प्राप्नुतः प्राप्नुवन्ति । श्राप्नुवः । श्राप्ता । श्राप्नुहि । लुदिखादङ् । श्रापत् । लुब्स्तङि सिचि ‘'लिङ्सिचो:-' इति इट्पक्षे 'वृतो वा' इति दीर्घविकल्पं मत्वाह अवरिष्ट, वरीष्टेति । श्रवृतेति । इडभावपचे 'हस्वादङ्गात्' इति सिचो लोपः । धु कम्पन इति । ह्रस्वान्तोऽयमनिट् । षुञ इव रूपाणि । दीर्घान्तोऽप्ययमित्यादि । व्यक्तम् ।
अथ परस्मैपदिन इति । राध साध संसिद्धावित्येतत्पर्यन्ता इत्यर्थः । ' दु उपतापे' इत्यारभ्य ‘स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो हस्वान्ताः । हि गताविति । प्रहिणोतीत्यत्र भिन्नपदत्वाद् णत्वेऽप्राप्ते श्रह हिनुमीना । हिनु मीना अनयो र्द्वन्द्वात्षष्ठद्विवचनस्य र्षो लुक् । 'रषाभ्यां नो णः -' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि-' इत्यत उपसर्गादिति च । तदाह उपसर्गस्थादिति । हेरचङि । 'चजो:-' इति सूत्रात् कुप्रहणमनुवर्तते । 'अभ्यासाच्च' इत्यतः अभ्यासादिति । 'हो हन्तेः -' इत्यतो ह इति षष्ठयन्तमनुवर्तते, तदाह अभ्यासात्परस्येति । जिघायेति । जिध्यतुः । जिघयिथ, जिघेथ । जिध्यिव । आप्लु व्याप्तौ । अनिट् । श्राप्नुवन्तीति । संयोगपूर्वकत्वाद् 'हुश्नुवो:-' इति न यण् । आप्नुव इति 1 हिनु मीना | प्रमीणाति । हेरचङि । जेघीयते । अचङीति किम्, अजीहयत् । इह यन्तस्य धात्वन्तरत्वात्केवलस्य त्वभ्यासनिमित्तप्रत्ययपरत्वाभावात्कुत्व प्राप्तिरेव नास्तीत्यचङीति निषेधो व्यर्थः सन् ज्ञापयति एयधिकस्यापि कुत्वं भवतीति । तेन जिघापयिषतीत्यादि सिद्धम् । आप्नुहीति । संयोगपूर्वत्वाद् 'उतश्च प्रत्ययात् - '
1
1