________________
३४६ ] सिद्धान्तकौमुदी।
स्वादि. चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् , अकृत । वृञ् ३२५४ वरणे । २५२७ बभूथाततन्थजगृभ्मववर्थेति निगमे । (७-२-६४) एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट । ववरिथ । ववृव । ववृवहे । वरिता, वरीता। २५२८ लिङ्सिचोरात्मनेपदेषु । (७-२-४२) वृष्भ्यामृदन्ताच्च परयोलिङसिचोरिड वा स्यात्तङि । २५२६ न लिङि । (७-२-३६) वृतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट, वृषीष्ट । अवारीत् , अवरिष्ट, अवअस्तार्षीत् । लुङस्तङि त्वाह अस्तरिष्ट, अस्तृतेति । 'ऋतश्च संयोगादेः-' इति इट्पक्षे गुणः । इडभावपक्षे तु 'ह्रस्वादशात्' इति सिचो लोपः । का हिंसायाम चकथेति । 'कृसृभूत्र' इति थल्यपि नित्यमिसिनषेधः । चकृव । क्रियादिति । आशीलिङि 'रिङ् शयग्लिङक्षु' इति रिङ् । कृषीष्टेति । 'उ' इति कित्त्वान्न गुणः । अकार्षीदिति । सिचि वृद्धिः रपरत्वम् । अकृतेति । 'ह्रस्वादङ्गात्' इति सिचो लोपः । वृञ् वरणे । सेट् । ववार वत्रः। बभूथाततन्थ । निगमो वेदः, तदाह एषां वेद इति । ननु 'कृसभृ-' इति निषेधादेव थलि ववषैति सिद्धे किमर्थ ववर्थग्रहणमित्यत आह तेन भाषायां थलीडिति । निगमे एव वृणोतेस्थलि इरिनषेध इति नियमलाभादिति भावः । व्रवे व्रवाते । क्षे। 'वृतो वा' इति मत्वाह वरिता वरीतेति । लिसिचोः । 'इट् सनि वा' इत्यत इड्वा इत्यनुवर्तते । 'वृतो वा' इत्यतो वृत इति तदाह वृवृजभ्यामित्या. दिना । न लिङि । 'वृतो वा' इत्यतो वृत इत्यनुवर्तते । लिङीति षष्ठयर्थे सप्तमी । 'आर्धधातुकस्येट-' इत्यत इडित्यनुवृत्तं षष्ठया विपरिणम्यते । 'ग्रहोऽलिटि-' इत्यतो दीर्घ इत्यनुवर्तते । तदाह वृत इति । वृअभ्यामृकारान्ताचेत्यर्थः । वरिषीष्टेति । इट्पक्षे 'वृतो वा' इति प्राप्तो दीर्घो न भवति । वृषीष्टेति । इडभावपक्षे 'उश्च' इति कित्त्वान गुणः । अवारीदिति । लुङि परस्मैपदे सिचि वृद्विः। अवारिष्टाम् अवारिषुः । 'सिचि च परस्मैपदेषु' इति निषेधादिह 'वृतो वा' इति न दीर्घः । किम्, स्तर्यात् । अस्तार्षीत् । बभूथाततन्थ । भूधातोस्तनोश्च थलि इडभावो निपात्यते। त्वं हि होता प्रथमो बभूथ' । 'येनान्तरिक्षमुर्वाततन्म' । भाषायां तु बभूविथ । तेनिथ । 'जगृभ्माते दक्षिणमिन्द्र हस्तम्' । भाषायां तु जगृहिम । वृणोतेस्थलि कादिसूत्रेणेरिनषेधे सिद्धेऽपि निगम एव निषेधो नान्यत्रेति नियमार्थ ववर्थग्रहणम् । 'ववर्थ त्वं हि ज्योतिषाम्। भाषायां तु ववरिथ । ववृषे। लिङसिचोः। वृत इत्यनुवर्तते । आत्मनेपदेषु किम् , अवारीत् । अवारिष्टाम् । अवारिषुः । 'सिचि च परस्मैपदेषु' इति निषेधादिह 'वृतो वा' इति न दीर्घः ।