________________
३४ 3
सती ।
[ स्वदि
शब्लु १२६१ शक्तौ । अत् । १२६२ साथ १२६३ सिद्धौ । नोति । २५३२ राधो हिंसायाम् । ( ६-४- १२३ ) एवाभ्यारुलोपौ स्तः किति विटि सेटि यलि च । श्रपरेधतुः । रेधुः । रेधिथ । राजा । नाप्नोति । साखा । प्रसारसीत् असाद्धाम् ।
*
अथ द्वावनुदात्तेतो । अश्रू १२६४ व्याप्तौ संघाते च श्रश्नुते । २५३३ अनोश्च । ( ७-४-७२ ) दीर्घादभ्यासादवर्णास्परस्य नुट् स्यात् । श्रनशे 1 अशिता, अष्टा । अशिष्यते, अन्यते । प्रश्नुवीत । श्रतीष्ट, अशिषीष्ट । श्राशिष्ट, प्रष्ट श्राताम् । ष्टिघ १२६५ आस्कन्दने । स्तिनुते । विष्टिधे । स्तेधिता ।
अथ आगणान्तात्परम्मैपदिनः । तिक १२६६ तिग १२६७ गतौ च ।
संयोगपूर्वकत्वाद् 'लोपश्चास्य- इति नोकारलोपविकल्पः । आनुहीति । संयोगपूर्वकत्वादेव 'उतश्च प्रत्ययात् -' इति हेर्न लुक् । शक्लू शक्लाविति । शक्नोति । शशाक शेकतुः । शशक्थ, शेकिथ । शेकिव । शक्ता । शक्ष्यति । अशकदिति । लृदित्त्वादङ् । राध साध संसिद्धौ । अनिटौ । दीर्घाकारवत्वाद् 'अत एकहल्-' इत्यप्राप्तावाह राधो हिंसायाम् । 'ध्वसोः -' इत्यत एदिति अभ्यासलोप इति च अनुवर्तते । 'गमहन-' इत्यतः कितीति, अत एकहल्मध्ये -' इयतो तिदीति 'थलि च सेटि' इति सूत्रं चानुवर्तते, तदाह एत्त्वेत्यादिना अपरेधतुरिति । उपसर्गवशादिह हिंसायां वृत्तिः । अन्यत्र रराधतुः । थल्यपि का देनियमान्नित्यमिद् । ‘उपदेशेऽत्वतः” इत्यत्र तपरकरणादिद्द नेरिनषेधः, तदाह रेधियेति । राद्धेति । 'झषस्तथो:-' इति धः ।
शू व्याप्ताविति । ऊदित्त्वाद्वेट् । अश्नुते इति । प्रश्नुवाते अश्नुवते ! संयोगपूर्वकत्वाद् 'हुश्नुवोः -' इति न यण् । अश्नोतेश्च । 'अव लोपः -' इत्यतः श्रभ्यासस्येत्यनुवर्तते, ‘तस्मान्नुद् -' इति च । तच्छब्देन 'श्रत श्रादेः' इति कृतदीर्घः अकारः परामृश्यते, तदाह दीर्घादिति । आनशे इति । श्रानशिषे न । आनशिव, आनश्व । अष्टेति । व्रश्चादिना शस्य षत्वे ष्टुत्वम् । विधिलिब्याह अश्नुीति । श्राशीर्लिकि ऊदित्त्वादिविकल्पं मत्वाह अक्षी, अशि षष्ठेति । लुङि सिच इट्पक्षे आह आशिष्टेति । अनि 'झलो झलि' इति सिचो लोपं मत्वाह आष्टेति । ष्टिघधातुः षोपदेशः । सेट् । आ गणान्ताइति हेर्लुङ् न । राघो हिंसायाम् । श्रत इत्यनुवर्तमानेऽपि सामर्थ्यादकारमात्रं स्थानित्वेनाश्रीयते । श्रश्नोतेश्च । 'तस्मान्नुड-' इत्यनुवर्तत इत्याहुः । दीर्घादिति । इनुविकरणनिर्देशः किम् क्रयादेरश भोजन इत्यस्य माभूत् । आश । आशतुः ।