________________
प्रकरणम् ४७] बालमनोरमा-तत्त्वोधिनीसहिता। [३४३ तत्र स्नाने अकर्मकः । २५२३ स्वादिभ्यः श्नुः। (३-१-७३) सुनोति । सुनुतः । 'हुश्नुवोः-' (सू २३८७) इति यण् । सुन्वन्ति । सुन्वः, सुनुवः । सुन्वहे, सुनुवहे । सुषाव । सुषुवे । सोता । सुनु। सुनवानि । सुनवै । सुनु. यात् । सूयात् । 'स्तुयुधूल्भ्यः -' (सू २३८५) इतीट् । असावीत् । असोष्ट । श्रारभ्य नित्त्वादुमय दिनः । सुरासंधानमिति । सुरोत्पादनमित्यर्थः। स्वादिभ्यः श्नुः । कई सार्वधातुके स्वादिभ्यः श्नुः स्यादित्यर्थः। शपोऽपवादः । सुनोतीति । लटस्तिपि श्नुः, शकार इत् शित्त्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति ङित्त्वात्तस्मिन् परे धातोर्न गुणः । नोस्तु तिपमाश्रित्य गुण इति भावः । सुनुत इति । तसो हित्त्वात् श्रोर्न गुण इति भावः। सुनु अन्ति इति स्थिते 'अचि श्नुधातु-' इति उवङमाशङ्कयाह हुश्नुवोरिति । सुनोषि सुनुथः सुनुथ । सुनोमि । वसि मसि च 'लोपश्चास्यान्यतरस्यां म्वोः' इत्युकारलोपविकल्पं मत्वाह सुन्वः सुनुव इति । सुन्मः सुनुम इत्यपि ज्ञेयम् । अथ लटस्तति सुनुते सुन्वाते सुन्वते । सुनुषे सुन्वाथे सुनुध्वे । सुन्वे । इति सिद्धवत्कृत्याह सुन्वहे, सुनुवहे इति । लोपश्चास्य-' इत्युकारलोपविकल्प इति भावः । सुन्महे, सुनुमहे इत्यपि ज्ञेयम् । सुषावेति । सुषुवतुः सुषुवुः । सुषविथ, सुषोय सुषुवथुः सुषुव। सुषाव, सुषव सुषुविव सुषुविम । अथ लिटस्तब्याह सुषुवे इति । सुषुवाते सुषुविरे । सुषुविषे सुषुवाथे सुषुविध्वे । सुषुवे सुषुविवहे सुषुविमहे । सोतेति । अनिट्वसूचनमिदम् । सोष्यति, सोष्यते । सुनोतु, सुनुतात् सुनुताम् सुन्वन्तु । इति सिद्ध वत्कृत्याह सुनु इति । 'उतश्च प्रत्ययात्-' इति हेर्लुक् । सुनुतात् सुनुतम् सुनुत । सुनवानीति । 'हुश्नुवोः-' इति यणं बाधित्वा परत्वाद् गुणः, पाटः पित्त्वेन अङित्त्वादिति भावः । सुनवाव सुनवाम । लोटस्तङि सुनुताम् सुन्वाताम् सुन्वताम् । सुनुष्व सुन्वाथाम् सुनुध्वम् । इति सिद्धवत्कृत्याह सुनवै इति । 'हुश्नुवो:-' इति यणं बाधित्वा परत्वाद् गुणः, पाटः पित्त्वेन डित्त्वाभावादिति भावः । सुनवावहै सुनवामहै । असुनोत् असुनुताम् असुन्वन् । असुनोः । असुनवम् 'असुनुव, असुन्व । असुनुत असुन्वाताम् असुन्वत । इत्याधूह्यम् । विधिलिड्याह सुनुयादिति । यासुटो ङित्त्वात् श्नोन गुण इति भावः । सूयादिति । आशीर्लिङि 'अकृत्सावधातुकयो:-' इति दीर्घ इति भावः । सोषीष्ट । लुधि पस्मैपदे सिच इएिनषेधे प्राप्ते आह स्तुसुधूभ्य इति ।
षु । सुन्व इति । 'लोपश्चास्या-' इत्युकारस्य वा लोपः । सुनवानीति । 'पाडुत्तमस्य -' इत्याटि कृते 'हुश्नुवो:-' इति यणं बाधित्वा परत्वाद् गुणः ।