________________
३४४ ]
सिद्धान्तकौमुदी। अभिषुणोति । श्रभ्यषुणोत् । अभिसुषाव । २५२४ समोते: स्यसलाः। (८-३-११७) स्ये सनि च परे सुजः षो न स्यात् । विसोयलिपि १२४८ बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । सेता। शिजु १२४६ निशाने । तालव्यादिः । शेता । डुमिन् १२५० प्रक्षेपणे । 'मीनातिमिनोति-' (सू २५०८) इत्यात्त्वम् । ममौ । ममिथ, ममाथ । मिम्य । माता । मीयात् । इडिति । असाविष्टामित्यादि । लुङस्तड्याह असोति । असोषातामियादि । असोष्यत् , असोष्यत । 'उपसर्गात् सुनोति-' इति षत्वं मत्वा श्राह अभिषुणोतीति । षात्परत्वारणत्वम् । अभ्यषुणोदिति । 'प्राक् सितादड्व्यवायेऽपि' इति षत्वम् । अभिसुषावति । 'स्थादिष्वभ्यासेन-' इति नियमदभ्यासस्य न षः । 'प्रादेशप्रत्यययोः' इत्युत्तरखण्डस्य षः। सुनोतेः स्यसनोः। 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । 'न रपर-' इत्यतो नेत्यनुवर्तते, तदाह षो न स्यादिति । स्ये उदाहरति विसोष्यतीति । अत्र 'उपसर्गात् सुनोति-' इति प्राप्तः षो न भवति । सनि तु अभिसुसूरित्युदाहरणम् । षुञः सांने द्वित्वे अभिसुसूस इति सनन्तात् किंपि अतो लोपे अभिसुसूस् इत्यस्मात् सोहेल्ङपादिलोपे सस्य स्वे 'वोरुपधायाः-' इति दीर्घ रेफस्य विसर्गः । सुसूषति इति तु नोदाहरणम् , 'स्तौतिएयोरेव षण्यभ्यासात्' इति नियमादेव षत्वाभावसिद्धरित्यलम् । पिज बन्धन इति । षोपदेशः अनिट् च । षुञ इव रूपाणि । विसिनोतीति । 'सात्पदाद्योः' इति षत्वनिषेधः। 'उपसर्गात्सुनोति-' इति तु न षः, सुनोत्यादिष्वनन्तर्भावादिति भावः । सिषायेति । णलि वृद्धौ आयादेशः । अतुसादौ ‘एरनेकाचः-' इति यण् । सिष्यतुरित्यादि । लिटस्तड्याह सिष्ये इति । सिषि ( इति स्थिते 'एरनेकाचः-' इति यणिति भावः । सिष्याते सिध्यिरे इत्यादि। अरौषीत् । षिञ् निशान इति । षिञ्चत् । डु मिञ् प्रक्षेपण इति । मिनोति । उपदेशे एजन्तत्वादात्त्वे अप्राप्ते आह मीनातिमिनोतीत्यात्त्वमिति । एज्विषये अशितीति शेषः । ममाविति । आत्त्वे कृते णल औत्वमिति भावः । तुसादावेज्विषयत्वाभावान्नात्त्वम् । 'एरने काचः-' इति यण् । मिम्यतुः। मिम्युः। भारद्वाजनियमात् थलि वेडिति मत्वाह ममिथ, ममाथेति । थलः पित्तन अकित्त्वादेविषयत्वम् । इट्पक्षे 'श्रातो लोपः-' इति भावः। मिम्यथुः मिम्य। ममौ मिम्यिव सुनोतेः स्यसनोः । 'न रपर-' इत्यस्मान्नेत्यनुवर्तनादाह पो न स्यादिति । सनि तु अभिसुसूः। सन्नन्तादस्मारिकप्यतो लोपे रुत्वे कृते दीधः। सुसूषतीत्येतत्तु नोदाहरणम् 'स्तौतिण्योरेव षणि' इति नियमेनैव षत्वाभावसिद्धेः । एतच्च काशि