________________
३४२]
सिद्धान्तकौमुदी। [ स्वादि. निदू १२४२ श्राीभावे । क्लियति । चिक्लेदिथ, चिक्कस्थ । चिक्लिदिव, चिक्लिद्व । चिक्लिदिम, चिक्लिभ । क्लेदिता, क्लेत्ता । भि मिदा १२४३ स्नेहने । 'मिदेर्गुणः' (स २३४६) । मेद्यति । अमिदत् । धुतादिपाठादेव अमिदत् अमेदिष्टेति सिद्धे इह पाठः अमेदीदिति मा भूदिति । द्युतादिभ्यो बहिरेवात्मने. पदिषु पाठस्तूचितः । मि दिवदा १२४४ स्नेहनमोचनयोः । ऋधु १२४५ वृद्धौ । भानर्ध । प्रार्धत् । गृधु १२४६ अभिकाङ्क्षायाम् । अगृधत । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृस्करणम् । दिवादिस्तु भ्वादिवदाकृतिगणः । तेन दीयते मृग्यतीत्यादिसिद्धिरित्याहुः ।
॥ इति तिरुन्ते दिवादिप्रकरणम् ॥
अथ तिङन्ते स्वादिप्रकरणम् ॥ ४७ ॥
घुम् १२४७ अभिषवे । अभिषवः सपनं पीडनं स्नान सुरासन्धानं च । मित्यर्थः। वस्तुतस्तु पुषादेः प्रागेव एषां त्रयाणां पाठो युक्त :ति भावः । त्रि मिदा सोहने । अमिददिति । ननु भ्वाद्यन्तर्गणे द्युतादौ 'नि मिदा स्नेहने' इत्यात्मनेपदिषु पठितः । लुडि तु 'युद्भ्यो लुङि' इत्यत्र परस्पदविकल्पः उक्तः । द्युताय तु परस्मैपद एव न तु तलि । एवं च द्युतादिपाठादेव परस्मैपदपक्षे अकि अमिददिति तङि तु अभावे अमेदिष्टेति सिद्धम् । तथा व पुषादावस्य पाठो व्यर्थः । तद्बहिर्दिवादी पाठादेव श्यन्सिद्धेरित्याशङ्कयते द्युतादिपाठादेवेत्यादिना सिद्धे इत्यन्तेन । तामिमां शङ्का परिहरति इह पाठः अमेदीदिति मा भूदितीति । पुषादावस्य पाठः अमेदीदिति व्यावृत्त्यर्थ इत्यर्थः । पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि असंभवादमेदीदिति स्यादिति भावः । नन्वेवं सति भ्वाधन्तर्गणे द्युतादावस्य पाठो व्यर्थः । द्युतादिभ्य बहिरेवात्मनेपदिषु पठ्यताम् । एवं च अमेदिष्टेति सिद्धम् । इह पुषादौ पाठात्तु श्रमिददिति सिद्धमित्याशङ्केयष्टापत्त्या परिइरति द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचित इति । सूचित इति पाठे तु सुतरामुचित इति व्याख्येयम्। निविदेत्यादि। व्यक्तम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां श्यन्विकरणं समाप्तम् ।
Rasअथ श्नुविकरणा धातवो निरूप्यन्ते । षुधातुः षोपदेशः । अनिट् । इत