________________
प्रकरणम् ४६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ३३५
पितो मर्षये । विभ पित इत्युभयपदीत्यर्थः । शक्यति शक्यते वा हरिं द्रष्टुं भक्तः । शशाक । शे केथ, शशक्थ । शेके । शक्ला । शचप्रति, शघयते । श्रशकत्, अशक्त । सेट्कोऽयमित्येके । तम्मतेनानिट्कारिकासु लुदित्पठितः । शकिता । शकिष्यति । विदा ११८८ गात्रप्रवरणे । धर्मस्वतावित्यर्थः । श्रयं दिति न्यासकारादयः । न हरदत्तादयः । स्विद्यति । सिंष्वेद । सिष्वेदिथ । स्वेत्ता । स्विदत् । क्रुध ११८६ क्रोधे । क्रोद्धा । क्रोत्स्यति । शुध ११६० बुभुन्तायाम् । चोद्धा । कथं ति इति । संपदादिक्किबन्तात्तारकादिस्वादितजिति माधवः । निर्बाध इति भावः । समाश्लेषि जतुना काष्ठम्' इत्यत्र तु अनालिङ्गनात् च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव । एवं च श्रालिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् । अथानालिङ्गने श्लिषः कर्मणि लुङि 'शल -' इति क्सोऽपि नेति यदुक्तं तदुदाहृत्य दर्शयति अश्लिक्षातामिति । श्रनाङ्गिने श्लिषः कर्मणि लुङः श्रतामि लेः क्साभावात् सिचि 'घढो:--' इति षस्य कत्वे सस्य षत्वे रूपमिति भावः । नन्वश्लिक्षातामित्यत्र सत्यपि क्से 'क्सस्याचि' इत्यकारलोपे इष्टं सिद्धमित्यस्वर सात्कर्मणि लुङि भादावु - दाहरति अश्लिक्षतेत्यादि । अश्लिष् स् झ इति स्थित्ते भोऽन्तादेशं बाधित्वा 'आत्मनेपदेष्वनतः ' इलदादेशे षस्य कत्वे सिचः सस्य पत्वे श्रश्चिक्षतेतीष्यते । च्लेः क्सेतु सति अश्लिष् स इति स्थिते 'क्सस्याचि' इत्यकारलोपाप्रसक्रतः परत्वाद् 'आत्मनेपदेष्वनतः' इत्यदादेशो न स्यादिति भावः । अलिष्ठा इति । श्लिषेः कर्मणि लुङस्थासि च्लेः सिचि 'झलो झलि' इति सिचो लोपे ष्टुत्वे अश्लिष्ठ इति रूपमिष्यते । क्से तु 'झलो झलि' इत्यसंभवादश्चिक्षयाः इति स्यादिति भावः । शिवमिति । श्लिषः कर्मणि लुङो ध्वमि सिचि 'झलो झर्लि' इति सस्य लोपे षत्य जश्त्वेन डकारे ष्टुत्वेन धस्य ढः । क्से तुं सति श्रश्वितध्वम् इति स्यादिति भावः । शक विभाषित इति । मर्षणे अर्थे शकधातुर्विकल्पित इत्यर्थः । विकल्पश्च प्रवृ तपरस्मैपदविषयक एव न तु दिवादिपाठविषयकः, व्याख्यानात्, तदाह उभयादीति । मर्षणमिह सामर्थ्यम् । शक्यति शक्यते वा हरिं द्रष्टुं भक्त इति । समर्थो भवतीत्यर्थः । सेट्कोऽयमित्येके इति । स्वमते त्वनिक एवेति भावः । ननु अनिट्कारिकासु लुदितः शकैः पाठात् कथमनिट्कत्वमित्यत श्राह तन्मते नेति । ये सेदत्वं शकेर्वदन्ति तन्मतमवलम्ब्य अनिकारिकासु शकिः जुदित्पठित इत्यर्थः । संपदादिक्किबन्तादिति । क्षुध्यत
विमिति । न्यासकारादय इति । तथा च तन्मते ‘नीतः क्लः' इति