________________
३३६ ]
सिद्धान्तकौमुदी। [दिवादिवस्तुतस्तु 'वसतितुधोः-' (सू ३०४६ ) इतीट् वक्ष्यते । शुध ११६१ शोचे । शुध्यति । शुशोध । शोद्धा । षिधु ११६२ संराद्धौ । अदित्पाठः प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् । रध ११६३ हिंसासराद्धयोः । संराद्धिनिष्पत्तिः । रध्यति । 'रधिजभोरचि' (सू २३०२) इति नुम् ररन्ध ररन्धतुः। २५१५ रधादिभ्यश्च । (७-२-४५) रध् , नश् , तृप , हर, द्रुह् , मुह, हणुङ् , ष्णिह , एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ, रद्ध ररन्धिव, रेव । २५१६ नेट्यलिटि रघेः । (७-१-६२ ) लिड्दर्जे इटि रधेर्नुस् न स्यात् । रधिता, रद्धा। रधिष्यति, रत्स्यति । अडितु नुम् । 'प्रनिदिताम्-' (सू ४१५ इति नलोपः । अरधत् । णश ११६४ श्रदर्शने । नश्यति । ननाश नेशतुः । नेशिथ । २५१७ मस्जिनशोभलि । (७-१-६०) इति क्षुध, भावे क्विप् । क्षुध् अस्य संजाता क्षुधित इति विग्रहः । वसतितुधोरिति । दसेः क्षुधेश्व क्त्वानिष्ठयोरिडागमः स्यादिति तदर्थः । वक्ष्यत इति । कृत्स्विति शेषः । विधु संराद्धाविति । निष्पत्तावित्यर्थः । प्रामादिक इति । माधवादिसंमतत्वादिति भावः । रध हिंसेति । सेट् । चतुर्थान्तोऽयम् । ररन्धतुरिति । एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगा परत्वेन अकित्त्वानलोपो नेति भावः । रधादिभ्यश्च । 'आर्धधातुकस्येड्वलादेः' इत्यनुवर्तते । स्वरतिसूति-' इत्यतो वेति चेत्याभप्रेत्य शेषं पूरयति बलाद्यार्धधातुकस्य वेडिति । 'आर्धधातुकस्य-' इति नित्ये प्राप्ते विकल्पोऽयम्। लुटि तासि इटि 'रधिजभोरचि' इति नुमि प्राप्ते नेट्यलिटि रधेः । 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते, तदाह लिड्वर्जे इटीति । अङि त्विति । (षाद्यङि कृते सतीत्यर्थः । अरधदिति । 'मो अहं द्विषतेऽरधम् ।' णश अदर्शन इति । णोपदेशोऽयं सेट । 'रधादिभ्यश्च' इति वेत् । तत्र इट्पचे आह नेशिथेति । 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे नना थ इति स्थिते वर्तमाने क्लो भवति । श्रादित्त्वानिधायां नेट् । स्विन्नः । विभाषा भावादिकर्मणोः' । स्विन्नम् । स्वेदितमित्यादि सिद्धम् । विधु । संराद्धिनिष्पत्तिः । 'उदितो वा' इति क्त्वायामिडिकल्पः। इट्पक्षे 'रलो व्युपधात्-' इति वा कि वम् । सिधित्वा । सेधित्वा । सिद्ध्वा । प्रामादिक इति । ऊदित्त्वेत्यनुवादादिस यामप्ययम् । नत्वनुदात्तेषु सिध्यतेः पाठो व्यर्थः स्यादिति भावः। रधादिभ्यश्च । 'स्वरतिसूति-' इत्यतो वेत्यनुवर्तते । योगविभागो वैचित्र्यार्थः । गणनिदेशाध लुकि रारधितेत्येव न तु रारद्धेति । नेट्यलिटि । इटौति किम्, रन्धकः । अलिटीति किम् ,