________________
प्रकरणम् ४६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३३ प्रीती । दुष ११८५ वैकृत्ये । विष ११८६ श्रालिङ्गने। श्लिष्यति । शिश्लेष । लेष्टा । श्लेश्यति । २५१४ श्लिषः-अस्मात्परस्यानिटश्रलेः क्सः स्यात् । पुषाद्यढोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ।-आलिङ्गने । (३-१-४६) लिप ब्लेराखिने एव क्सो नान्यत्र । योगविभागसामर्थ्यात् 'शल इगुपधात्-' (सू २३३६ ) इत्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां श्लिष् एते अनिटः । लुङि श्लिषः लेः सिजादेशे प्राप्ते श्लिषः। च्लेरिति 'शल इगुपधात्-' इत्यतः आनेटः क्स इति चानुवर्तते, तदाह अस्मात्परस्येत्यादिना । ननु ‘शल इगुपधात्-' इत्येव क्से सिद्धे किमर्थमिदमित्यत आह पुषाद्योऽपवाद इति । 'शल इगुपधात्-' इति क्सं बाधित्वा परत्वात् पुषाद्यङ स्यात् , तन्निवृत्तये पुरः क्सविधिरित्यर्थः । ननु श्लिष इति क्सः यथा परमपि पुषाद्यर्ड बाधते । ता चिराभावकर्मणोः-' इति चिणमपि परं बाधेत, एवं सति 'उपाश्लेषि कन्या देवतेन' इत्यत्र कर्मणि लुलि 'चिराभावकर्मणोः' इति च्लेश्चिण न स्यादित्यत श्राह तु चिण इति। "श्लिषः' इति क्सविधिः 'चिण भावकर्मणोः' इति चिविधेर्न बाधक इत्यर्थः । कुत इत्यत आह पुरस्तादिति । 'शल इगुपधादनिट; क्सः' 'लषः' 'पुषादिद्युताय्लुदितः परस्मैपदेषु' 'चिण भावकर्मणोः' इति सूत्रकम इति भावः। आलिङ्गने । श्लिष इति पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहानुवर्तते, श्लिष इति च । तथा च आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते । 'रिलषः' इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम्, तदाह श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति । नन्वयं नियमः 'अनन्तरस्य-' इति न्यायात श्लिष इति स्त्रप्राप्तस्यैव स्यात् , नतु 'शल इगुपधात्-' इत्यस्यापीत्यत
आह शल गुपधादित्यस्याप्ययं नियम इति । कुत इत्यत आह योगविभागसामर्थ्यादिति । यदि 'श्लिषः' इति प्राप्त एव क्स आलिङ्गन एव इति नियम्थेत तईि योगविभागो व्यर्थः स्यात् । “श्लिष आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिझने क्स' नेत्यस्यार्थस्य सिद्धत्वात् । अतः 'शल इगुपधात्-' इति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायत इत्यर्थः । विभागेन व्याचष्टे शिष इति । अनिटश्च्लेः क्स इति । एतच्च 'च्लेः सिच्', 'शल इमुपधार -' इत्यतोऽनुवर्तत इति भावः । अनिटः किम् , 'श्लिषु दाहे' इति भौवादिकस्य सेटो माभूत् । अश्लेषीत् । 'शल इगुपध-' इति सिद्धे पुनः क्सपियः कालमा पुषाधाति । सामर्थ्यादिति । यदि हि लिष इति प्राप्त एव क्सो नियम्पेत तहि योगविभागो व्यर्थः स्यादिति भावः । शल इगुपधा