________________
३३२ ]
सिद्धान्तकौमुदी।
[ दिवादिर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध रराधतुः । रराधिथ । 'राघो हिंसायाम् ' ( सू २५३२ ) इत्येवाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया दैवादिकरवायोगात् । राद्धा । रात्स्यति । श्रयं स्वादिश्चुरादिश्च । व्यध १९८१ ताडने । 'प्रहिज्या -' ( सू २४१२ ) इति संप्रसारणम् । विध्यति । विव्याध विविधतुः । विग्यधिथ, विग्यद्ध । व्यद्धा । व्यरस्यति । विध्येत् । विध्वात् । अन्यासीत् । पुष ११८२ पुष्टौ । पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोदयति । 'पुषादि - ' ( सू २३४३ ) इत्यङ् । श्रपुषत् । शुष ११८३ शोषणे । श्रषत् । तुष ११८४ शुभमशुभं वेति पृष्टो दैवज्ञः तस्य शुभाशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षत इति यावत् । ननु पर्यालोचने देवस्य कर्मत्वात्कमिकर्मकतेत्यत E दैवस्येति । ननु 'राधोऽकर्मकाद् वृद्धावेव' इत्यत्र वृद्धिग्रहणस्य उपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकत्वाद् रराधतुः इत्यादी 'राघो हिंसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ स्यातामित्यत आह राध इति । इह नेति । राधतुः इत्यादौ राधेहिंसार्थकत्वे ' राधो हिंसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपो न स्त इत्यर्थः । कुत इत्यत आह हिंसार्थस्येति । तोन्मिषत्येवैषा शङ्का, राधेर कर्मकस्यैव दैवादिकत्ववचनात् । हिंसार्थकस्य च राधेः सकर्मकतया देवादिक त्वाभावादुक्तशङ्काया अनुन्मेषादित्यर्थः ननु राप्नोति राधयति इति कथमित्यत
1
अयं स्वादिश्चुरादिश्चेति । रराधिथ । क्रादिनियमाद् नित्यमिट्, दीर्घा - कारवत्त्वेन ‘उपदेशेऽत्वत:' इत्यस्याप्रवृत्तेः अजन्तोऽकारवानित्यत्र च हस्वाकारस्यैव विवक्षितत्वात् । राद्धा । श्ररात्सीत् । व्यध ताडन इति । चतुर्थान्तोऽयम् । अनिट् । विध्यतीति । श्यनो ङित्त्वाद् 'प्रहिज्या -' इति यक रस्य संप्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः । वकारस्य तु न संप्रसारणम् ' न संप्रसारणे संप्रसारणम्' इति निषेधात् । विव्याधेति । द्वित्वे कृते श्रभ्यासस्य 'लिट्यभ्यासस्य -' इति संप्रसारणमिति भावः । विविधतुरिति । परत्वाद् 'प्रहिज्या - इति संप्रसारणे कृते द्वित्वमिति भावः। भारद्वाजनियमात्थलि वेडित्याह विव्यधिथ, विव्यद्धेति । 'लिट्यभ्यासस्य -' इति संप्रसारणम् । श्रनिट्पक्षे 'झषस्तथो -' इति धः । अव्यात्सीदिति । हलन्तलक्षणा वृद्धिः । पुष पुष्टौ । अनिट् । पुपोषिति । अजन्ताकारवत्त्वाभावात् कादिनियमान्नित्यमिद् । पुषदिति । पुषाय । ङित्त्वान्न 1 गुणः । शुषधातुरनिट् । अशुषदिति । पुषाद्यङिति भावः । एवमग्रेऽपि । तुष् दुष् मित्यादिना । कृष्णायेति । 'राधीदयोः -' इति चतुर्थं । पुषदिति । ङित्त्वाद् गुणाभावः । शुष । शोष्ठा । शोदयति । 'विष तिने' इति सूत्रं योग