________________
प्रकरणम् ४६ } बालमनोरमा-तत्त्वबोधिनीसहिता। [३३१ ११७६ अल्पीभावे । लिश्यते। लेष्टा। लेच्यते। लिक्षीष्ट । अलिक्षत अलिक्षाताम्।
श्रथागणान्तात्परस्मैपदिनः । राधः ११८० अकर्मकाद् वृद्धावेव। एवकारो भिवक्रमः । राधोऽकर्मकादेव श्यन् । उदाहरणमाह, वृद्धाविति । यन्मह्यमपराध्यति । यतीत्यर्थः । विराध्यन्तं क्षमेत कः । द्रुह्यन्तमित्यर्थः । राध्यत्योदनः । सिध्यतीत्यर्थः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्त. दृशोमल्यम्-' इत्यमांपे नास्तीत्यर्थः । अकित्येव तद्विधानादिति भावः । लुयाह अस्ट्रेति । 'झलो कलि' इति सिचो लोपः । 'लिसिचावात्मनेपदेषु' इति । सिचः कित्त्वान्न गुणः, नाप्यमिति भावः । लिश अल्पीभावे । लिक्षीष्टेति । 'लिङ्सिचौइति कित्त्वान्न गुणः । अलिक्षतेति । 'शल इगुपधात्-' इति क्सः ।
आ गणान्तादिति । दिवादिगणसमाप्तिपर्यन्तमित्यर्थः। राघोऽकर्मः काद् वृद्धावेवेति । श्यनिति शेषः । राधधातोरकर्मकाद् वृद्धावेवार्थे श्यन्निति प्रतीयमानोऽर्थः । एवं सति अकर्मकादिति व्यर्थम् । राधेरान्तरे च श्यन् न स्यात् । इष्यते हि अपराध्यती यादौ द्रोहाद्यर्थेऽपि श्यन् , तत्राह एवकारो भिन्नक्रम इति । यस्मिन् क्रमे वृद्धावियत ऊर्ध्वम् एवकारः पठितः ततोऽन्यः क्रमो यस्य स भिन्नक्रम इत्यर्थः । वृद्वावित्यत ऊर्ध्वं पठित एवकारः अन्यत्र निवेशनीय इति यावत् । तदेव दर्शयति राधोऽकर्मकादेव श्यनिति । एवं चार्थान्तरेऽपि श्यन् सिध्यति । शत्रु हिनस्तीत्यर्थे शत्रुमपराध्नोतीत्यत्र सकर्मकत्वाद् न श्यनिति भावः । तर्हि वृद्धावित्यस्य किं योजनमित्याशङ्कय अकर्मकक्रिया एवंविधेति प्रदर्शनार्थ तत्, नतु परिसंख्यानार्थमित्याह उदाहरणमाह वृद्धावितीति । एवं च वृद्धिग्रहण. मकर्मकक्रियामात्रोफ्लक्षणमिति भावः । तथाविधार्थान्तराण्युदाहरति यन्मामित्यादिना । 'क्रुपद्रुह-' इति संप्रदानत्वम् । कृष्णाय राध्यतीति । 'राधीक्ष्योर्यस्य विप्रश्नः' इति संप्रदानत्वम् । दैवमिति । कृष्णस्य किमिदानीं इति श्नमं बाधित्वा श्यन् । नाप्यमिति । 'मृजिदृशोभल्यमकिति' इत्यकित्येव विधानात् । लिश। प्रातपादिनानल्पस्य अल्पभावोऽल्पीभावः । लिक्षीष्टेति । लिङ्सिचावात्मनेपदेणु' इति कित्त्वान्न गुणः । अलिक्षतेति । 'शल इगुपधाद्-' इति क्सः । राधोऽकर्मकात् । भिन्नक्रमं दर्शयति अकर्मकादेवेति । राधो वृद्धावेव श्यन्निति व्यायायामकर्मकादिति विशेषणं व्यर्थ स्याद् वृद्धावस्याकर्मकत्वात् । अकर्मकात्किम् , शत्रुम्म्परानोति । हिनस्तीत्यर्थः । राध संसिद्धाविति स्वादौ । राधो हिंसायामित्यनुवादादिसायामप्ययम् । उदाहरणमाहेति । अकमकत्वप्रयोजकस्य यस्य कस्यचिदर्थस्येति भावः। अकर्मके श्यन्नन्तस्य प्रयोगान्दर्शयति यन्महा