________________
प्रकरणम् ४६] बालमनोरमा-तत्त्वयोधिनीसहिता। [३२७ अन्तकर्मणि । स्यति : ससौ। अभिष्यति । अभ्यध्यत् । अभिससौ । दो ११४८ अवखण्डने । यति । ददौ । प्रणिदाता । देयात् । अदात् ।।
अथात्मनेपदिनः पञ्चदश। जनी ११४६ प्रादुर्भाव।२५११ शाजनोर्जा। (७-३-७६) अनयोर्जादेशः स्याग्छिति । जायते । जज्ञे जज्ञाते जज्ञिरे । जनिता । जनिष्यते । 'दीपजन- (सु २३२८) इति वा चिरण । २५१२ जनिवध्योश्च । (७-३-३५) अनयोरुपधाया वृद्धिर्न स्याधिणि मिणति दिति । छोधातुरपि शोधातुवत् । षो अन्तकर्मणीति । समापने विनाशने वेत्यर्थः । शोधातुवद्रूपाणि । षोपदेशोऽयम्। स्यतीति । 'श्रोतः श्यनि' इति लोपः । अभिष्यतीति । 'उपसर्गात्-' इति षत्वम् । अभ्यष्यदिति । 'प्राक्सितात्-' इति षत्वम् । अभिससाविति । स्थादिष्विति नियमाद् न षः । दो अव. खण्डने । प्रणिदातेति । 'नेर्गद-' इति णत्वम् । देयादिति । आशीलिङि एलिङीत्येत्त्वम् । अदादिति । 'गातिस्था-' इति सिचो लुक् ।
अथात्मनेपदिन इति। वाच शब्दे इत्यन्ता इत्यर्थः। जनी प्रादुर्भावे इति । 'श्वीदितो निष्ठा याम्' इत्याद्यर्थमीदित्त्वम् । शाजनोर्जा । शितीति । 'ष्ठिवुलमुचमाम्-' इत्यतस्तदनुवृत्तेरिति भावः । जायते इति । ज्ञाधातोस्तु श्नाविकरणत्वाद् जानातीत्युदाहरणम् । उभयत्रापि जादेशस्य ह्रस्वान्तत्वे 'अङ्गकार्ये कृते पुनर्माणकार्यम्' इति परिभाषया 'अतो दीर्घो यजि' इत्यप्राप्तेर्जादेशस्य दीर्घान्तत्वमाश्रितम् । जने इति । 'गमहन-' इत्युपधालोपे नस्य श्चुत्वेन ञः । जायेत । जनिषीष्ट । लुङि अजन् त इति स्थिते आह दीपेति । वा चिणिति । च्लेः इति शेषः । अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् जनिवध्योश्च । 'अत उपधायाः' इत्यत उपधाया इति 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति 'नोदात्तोपदेशस्यइत्यतो नेति 'आतो युक-' इत्यतः चिरकृतोरिति 'अचो णिति' इत्यतो णितीति चानुवर्तते, तदाह अनयोरिति । दीपीधातुरीदित् । 'दीपजन-' इति च्लेः नाशनम् । 'राघवस्य शरे?रैपोरं रावणमाहवे' इति । राघवेति संबुद्धयन्तम् । स्यति लोगमध्यमैकवचनम् । अभ्यष्यतीति । 'उपसर्गात्सुनोति-' इति षत्वम् । अभ्य
यदिति । 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । अभिससाविति । 'स्थादिषु-' इति नियमान्न षत्वम् । दो अवखण्डने । अवेत्युपसर्गप्रयोगो वैचित्र्यार्थः। खण्डने इत्येतावत्युक्तेऽपीष्टसिद्धेः । प्रणिदातेति । 'नेर्गद-' इति णत्वम् । देयादिति । 'एलिङि' इत्यत्वम् । अदादिति । 'गातिस्था-' इति सिचो लुक् । शाजनोर्जा । जानाति । शिति किम् , ज्ञाता । ज इति ह्रखोच्चारणऽपि 'श्रतो दीर्घा