________________
प्रकरणम् ४६ ]
बालमनोरमा-तत्त्वोधिनीसहिता ।
[ ३२५
एषाभारतं स्याल्लयाने नकारादशिनिभित । दाता । दास्यते । श्रदास्त । अदास्थाः । ढी ' १३५ विहायसा गतौ । डीयते । धीड् ११३६ आधारे । श्रीवत । दिध्ये । ता । मीड् ११३७ हिंसायाम् । हिंसा अत्र प्राणवियोगः । मीयते । १३८ श्रवणे | रीयते । लीड् ११३६ लेषणे । २५०६ विभाषा लीयतेः । ( ६-१-५१ ) लीयतेरिति यका निर्देशो न तु श्यना ।
आदित्यनुवर्तते तदाह एषामात्वं स्याल्ल्यपीपि । चकाराद् एचः अशितीति परनिमित्तं सम्चीयते । तत्र एच इत्यनन्तरं निमित्ते इति शेषः । एज्निमित्ते अशिति प्रत्यये च पर इति फलितम्, तदाह चकारादशित्येज्निमित्त इति । इति समुखीयत इति शेषः । लुब्याह श्रदास्तेति । इह त्त्वे कृते घुत्वे सत्यपि 'स्थाध्वोरिच' इति न भवति, 'स्थाध्वोरित्त्वे दीङः प्रतिषेधः' इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तिकादिति भावः । धी आधार इति । आधार आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषण इति । लीयते । लिल्ये । लिल्यिषे । विभाषा लीयतः । ननु लीयतेरिति श्यना निर्देशाद् 'लीङ् श्लेषणे' इति श्राविकरणस्य ग्रहणं न स्यादित्यत ग्राह यका निर्देश इति । 'सार्वधातुके यक्' इति विहितयका लीयतेरिति निवेशः । स च श्यन्श्नान्तसाधारणः, यक उभयत्रापि साधारण्यादिति भावः । 'मीना मिनोति-' इत्यतो ल्यपीति 'आदेचः -' इत्यत श्रादिति एच
1
मीनाति । मीञ् हिंसायाम् । डुमिञ् प्रक्षेपणे । प्रमाय । उपदाय । प्रमातव्यम् । उपदातव्यम् । एनिमित्त इति विषयसप्तमी । तेन श्रादावात्वं पश्चाद्धल् 'आतो युक् - ' इति युक् । उपदाय इति सिध्यति । अन्यथा एरचि कृते तत श्रात्वे उपदा इति स्यात् । श्रदास्तति | डीडः प्रतिषेधः । ' स्थाध्वोरिच्च' इति न घुत्वमित्यदितेति रूपं न भवतीत्येके । श्रन्ये तु 'स्थाध्वोरिच्च' इत्येतत्तु न भवति दीछोsनुकरणे दारूपासंभवेनाघुत्वात् । अत एव प्रनिदातेत्यादौ 'नेर्गद-' इति णत्वमपि न भवतीत्याहुः । श्रयं भावः - 'दो प्रवखण्डने ' इत्यादेर्दा रूिपत्वं संभवति । 'आदेच उपदेशे - ' इत्यस्यानैमित्तिकत्वात् । दीङस्तु एज्निमित्तप्रत्ययविषये त्वं दा इत्यनुकरणे एनमित्तस्याभावित्वान्न घु-वम् । एवं च घुप्रकृतित्वमपि नास्तीति णत्वस्याप्रसक्तिरिति । डीङ् । डीनः । डानवान् । स्वादिषु पाठसामर्थ्यान्निष्ठायामिएन । इटि हि सति व्यवधानाद् 'ओदितव' इति नत्वं न स्यादिति । स्वादिषु पाठसामर्थ्यादिव्यवधानेऽपि णत्वमस्त्विति न शङ्कथम्, इष्टानुरोधात् । डयित इति प्रयोगस्त भौवादि - कस्य । 'निष्ठा शीड्- इत्यत्र निष्ठेति योगविभागाद कित्वे गुण इत्याहुः । मी हिंसायाम् । मीञ् इति ऋयादौ । प्राणवियोग इति । मीयते प्राणैर्वियुज्यत