________________
३२४ ]
सिद्धान्तकौमुदी ।
[ दिवादि
( सू २२११ ) इत्यङ्वा । 'ऋदृशोऽढि गुण:' ( सू २४०६ ) । अजरत्, अजारीत् । श्रजारिष्टाम् । भीर्यति । जमरतुः । श्रकारीत् । ङ् ११३२ प्राणिप्रसवे । सूयते । सुषुवे । 'स्वरतिसूति-' ( सू २२७६ ) इति विकल्पं बाधित्वा 'अथकः किति' ( सू २३८१ ) इति निषेधे प्राप्ते क्रादिनियमानित्यमिट् । सुषुविषे । सुषुविवहे । सोता, सविता । दूङ् ११३३ परितापे । दीङ् ११३४ क्षये । दीयते । २५०७ दीङो युडचि क्ङिति । ( ६-४-६३ ) दीङः परस्याजादेः क्कित आर्धधातुकस्य युट् स्यात् । 'वुग्युटावुवङ्यणोः सिद्धौ वक्त ग्यौ' (वा ४०६२)। दिदीये । २५०८ मीनातिमिनोतिदीङां ल्यपि च । ( ६-१-५० )
1
षूङ् प्राणिप्रसव इति । प्रसव उत्पादनम् । षोपदेशोऽयम् । विकल्पमिति । परमपीति शेषः । निषेधे प्राप्त इति । पुरस्तात्प्रतिषेधकार डारम्भसामर्थ्यादिति भावः । दूङ् परिताप इति । पीडने पीडितीभवने वेत्यर्थः । ये सकर्मकः । द्वितीये अकर्मकः । दीङः क्षय इति । तयो हखो नाशो वा । दीङो युडचि । 'आर्धधातुके' इत्यधिकृतम् श्रचा विशेव्यते । तदादिविधिः । रोड इति पञ्चमी । सप्तमी षष्ठ्यर्थे । तदाह दीङ परस्येत्यादिना । दिदी ए इति स्थिते परत्वाद् 'एरनेकाच:-' इति यणि प्राप्ते नित्यत्वाद् युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्यासिद्धत्वाद्यण् दुर्वारः । तथा च दिव्ये इति स्यात् । इकारो न श्रूयेत यकारद्वयं श्रूयेत इत्यत आह वग्टाविति । मीनातिमिनोति । 'आदेच उपदेशेऽशिति' इत्यत तत्त्वं तु प्रयोगमनुसृत्य महद्भिरेव निर्धार्यम् । नपुंसके भावे तः । सुहिंतं तृप्तिः । अतएव ‘पूरणगुण-' इति सूत्रे सुहितार्थास्तृप्त्यर्था इति व्याख्य तम् । जेरतुरिति । 'ऋच्छत्यूताम्' इति गुणे कृते 'न शसदद-' इति गुणशब्देन भावितस्य निषेधाद् 'अत एकहल्मध्ये-' इत्यप्रवृत्तौ ' वा नॄत्रमुत्रसाम्' इत्येत्वाभ्यासलोपविकल्पः । षूङ् । प्रसव उत्पत्तिः। मृत्पिण्डो घटं सूयत इत्यादिप्रयोगाभावात्प्राण त्युक्तम् । ' स्वादय श्रोदितः' इति वक्ष्यमाणत्वाद् 'चोदितश्च' इति निष्ठानस्य रत्वम् । प्रसूनम् । विकल्पमिति । परमपीति शेषः । निषेधे प्राप्त इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः । दीङो । पञ्चमीत्यभिप्रायेण व्याचष्टे परस्येति । श्रजादेरिति । डः सीत्यत्रेव उभयनिर्देशे पञ्चमीनिर्देशो लीयानिति सप्तम्याः षष्ठीकल्पनम् । श्रचि किम्, देदीयते । क्छितीति किम् उपनम् । श्राभीयत्वेनासिद्धत्वमाशङ्कयाह तुग्युटाविति । दिदीये इति । परपय बाधित्वा नित्यत्वादादौ युट् । सति तु यणि ईकारस्य श्रवणं न स्यादेति युटः सिद्धत्वमुक्तम् ।
2