________________
प्रकरणम् ४६ ]
यालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ३२३
1
उद्वेगे । 'वा भ्राश - ' ( सू २३२१ ) इति श्यन्वा । त्रस्यति, श्रसति । सतुः, तन्त्रसतुः । कुथ ११३८ पूतीभावे । पूतीभावो दौर्गन्ध्यम् । पुथ १११६ हिंसायाम् । गुध ११२० परिवेष्टने । क्षिप ११२१ प्रेरणे । क्षिप्यति । चेप्ता । पुष्प ११२२ विकसने । पुष्ध्यति । पुपुष्प । तिम ११२३ ष्टिम ११२४ टीम ११२५ श्रार्द्रीभावे । तिम्यति । स्तिम्यति । स्वीम्यति । व्रीड ११२६ चोदने लज्जार्यां च । व्रीड्यति । इष ११२७ गतौ । इष्यति । षह ११२८ बुह ११२६ चक्यर्थे । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति । नृष् ११३० लृष ११३१ वयोहानौ । जीर्यति । जजरतुः, जेरतुः । जरिता, जरीता । जीर्येत् । जीर्यात् । 'स्तन्भु-' प्राप्ते विकल्पार्थमिदं वचनम् । अनर्तीदिति । 'सेऽसिचि -' इत्यत्र असिचि इत्युक्तेर्नित्यमिडिति भावः । त्रसी उद्वेगे । 'वा भ्रमुत्रसाम्' इत्येत्त्वाभ्यासविकल्पौ मत्वाह सतुः, तत्रसतुरिति । कुथ पूतीभाव इति । पवित्रीभवने इत्यर्थः । दुर्गन्धकरणे इति वा । 'पूतिगन्धस्तु दुर्गन्धः' इत्यमरः । तिम ष्टिम टीमेति । द्वितीयतृतीय घोपदशौ । द्वितीय इदुपधः । तृतीयस्तु ईदुपधः । षह पुहेति । षोपदेशौ । चक्यर्थस्तृप्तिरिति । यद्यपि 'चक तृप्तौ प्रतिघाते च' इत्युक्तम् । तथापि तृप्तिरेवेह विवक्षिता व्याख्यानात् । षुहेः 'नपुंसके भावे क्तः' इति कप्रत्यये सुहितशब्दः । सुहितस्तृप्तिरित्ति ‘पूरणगुण-' इति सूत्रे कैयटः । नृष् भृष् वयोहानाविति । सेट्कौ । जीर्यतीति । 'ऋत इद्धातो:' इति इत्त्वे 'हलि च' इति दीर्घ इति भावः । अतुसादी 'ऋच्छत्यताम्' इति गुणे रपरत्वे 'वा जत्रमुत्रसाम्' इत्येत्त्वाभ्यासलोपविकल्प इति भावः । जजरिथ । 'वृतो वा' इति मत्वाह जरिता, जरीतेति । व्यति, नर्त्स्यतीति । निनर्तिषति । निनृत्सति । कर्तिष्यति । कर्त्स्यति । चिकर्तिषति । चिकृत्सति । इत्यादि ज्ञेयम् । अनर्तीदिति । असिचीत्युक्तत्वादिह नित्यमिट् । त्रेसतुरिति । 'वा भ्रमुत्रसाम्' इत्येत्वाभ्यासलोपौ । कुथ । पूतीभावः पवित्री भवनम् । कुथ्यति भूमिः । पवित्रीभवतीत्यर्थः । पुष्प विकसने । 'कालात्साधु-' इत्यत्र पुष्प्यतिः शत्रन्तः । पचाद्यचि पुष्पम् । संज्ञायां कन् । पुष्प व्रीड । 'गुरोश्च हलः इत्यप्रत्यये टाप् । व्रीड । । घञि तु व्रीडः । अत एव 'बीडमावहति मे स संप्रति' इति कालिदासः । ' व्रीडादिवाभ्यासगतैर्विलिल्ये' इति माघश्च ।
"
ह ह | 'परिनिविभ्यः -' इत्यत्र सहेत्यकार उच्चारणार्थं इति षत्वमिह भव । परिषत्ह्यति । 'तीषसह-' इतीङ्घ्रिकल्पस्तु नास्य भवति सति शवन्तनिर्देशात् किं तु 'षह मर्षणे' इत्यस्यैव स इत्यात्रेयादयः । सहेति निर्देशस्योभयत्र तुल्यत्वे 'तीषसह-' इत्यत्र शपा निर्देशः । 'परिनिविभ्यः -' इत्यत्र तु नेत्यर्धजरतीयमिदं हेयमेव ।