________________
प्रकरणम् ४५] बालमनोरमा तत्त्वबोधिनीसहिता। [३२१ गा ११०६ स्तुतौ । 'देवाम्जिगाति सुन्नयुः । जिगीतः जिगति ।
॥ इति तिढन्तेषु जुहोत्यादिप्रकरणम् ॥ अथ तिङन्ते दिवादिप्रकरणम् ॥ ४६॥
दिवु ११०७ क्रीडाविजिगीषाग्यवहारद्युतिस्तुतिमोदमदस्वमकान्तिगतिषु । भृषन्ताः परस्मैपदिनः । २५०५ दिवादिभ्यः श्यन् । (३-१-६९) अतर्हित्त्वेऽपि मलादित्वाभावादात्त्वाभावे 'गमहन-' इत्युपधालोपे नकारस्य श्चुत्वेन अकार इति भावः । 'जनसनखनां सन्-' इत्याश्रित्य योगविमागेन उतार्थसिद्धि चाश्रित्य झल्ग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये । जजंसीति । 'नश्च-' इत्यनुस्वारः। जजाथः जजाथ । जजन्मि जजन्वः जजन्मः। जजानेति । जज्ञतुः । सेडयम । जजनिथ जज्ञथुः । जज्ञिक । जनिता। जनिष्यति। जजन्तु, जजातात् । जजाहि । जजनानि । अजजन् अजजाताम् अजजुः । अजजनम् अजजन्व । विधिलिङि 'ये विभाषा' इति मत्वाह जजायात्, जजन्यात् इति । अजनीत् , अजानीत् । अजनिष्यत् । गा स्तुतौ। देवान् जिगातीति । 'भृमामित्' इत्यत्र 'बहुलं छन्दसि' इति वचनादभ्यासस्य इत्त्वमिति भावः । जिगीत इति । 'ई हल्यघोः' इति ईत्त्वम् । जिगतीति । अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः-' इत्याल्लोपः। जिगासि जिगीथः जिगीथ । जिगामि जिगीवः । जगौ जगतुः । जगिथ, जगाथ । जगिव । गाता। गास्यति । जिगातु, जिगीतात् जिगीताम् जिगतु । जिगीहि। जिगानि । अजिगात् अजिगीताम् अजिगुः । अजिगाः । अजिगाम् अजिगीव। जिगीयात् । आशिषि गेयात् । अगासीत् । अगास्यत् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां श्लुविकरणं समाप्तम् । अथ श्यन्विकरणपातवो निरूप्यन्ते। दिवु क्रीडेति । उदिदयम् । तेन क्त्वायामिविकल्पः । निष्ठायां च नेट। झूषन्ताः इति । जष् इष् वयोहानी इत्येतत्पर्यन्ता इत्यर्थः । दिवादिभ्यः श्यन् 'कर्तरि शप्' इत्यतः कर्तरीति आत्वम् । एवं जायादित्यत्रापि । जिगातीति । 'बहुलं छन्दसि' इति इत्वम् ।
इति तत्त्वबोधिन्यां जुहोत्यादिप्रकरणम् । दिवु क्रीडा । उदित्करणं क्त्वायामिडिकल्पार्थ निष्ठायामनिडर्थ च । । देवित्वा । द्यूत्वा । यूतम् । क्रीडायाम् , दीव्यन्ति माणवकाः । विजिगीषायाम् , शत्रु