________________
३२० ]
सिद्धान्तकौमुदी। [जुहोत्यादि. धिष ११०३ शब्दे । दिधेष्टि दिधिष्टः । धन ११०४ धान्ये । दधन्ति दधन्तः दधनति । जन ११०५ जनने । जजन्ति । २५०४ जनसनखनां सम्झलोः। (६-४-४२) एषामाकारोऽन्तादेशः स्याज्झलादौ सनि भलादौ विडति च । जजातः जज्ञति । जजसि । जजान । जजायात् , जजन्यात् । जायात् , जन्यात् । तुतुरिव । तोरिता । तोरिष्यति । तुतोर्तु, तुतूर्तात् तुतूर्ताम् तुतुरतु । तुतूर्हि । तुतुराणि । अतुतोः अतुतूर्ताम् अतुतुरुः । अतुतोः। अतुतो म् अतुतूव। तुतूर्यात् । तूर्यात् । अतोरीत् । अतोरिष्यत् । धिष शब्दे सेट् । दिधेष्टीति । श्लौ द्वित्वादी लघूपधगुणे तकारस्य ष्टुत्वमिति भावः । दिधिषति । दिधेक्षि दिधिष्ठः । दिधेष्मि दिधिष्वः । दिधेष दिधिषतुः । दिधेषिथ । देधिषिव । धेषिता। धेषिष्यति । दिधेष्टु, दिधिष्टात् । दिधिषतु। दिधिड्ढि । दिधिषाणि । अदिधेट अदिधिष्टाम् अदिधिपुः। अदिधिषम् अदिधिष्व । दिधिष्य त् । धिष्यात् । अधेषीत् । अधेषिष्यत् । धन धान्य इति । धान्यार्जन इत्यर्थः । दधन्त इति । क्षमूष सहने इति धातोः चक्षसे इतिवद् 'अनुनासिकस्य क्वि-' इति न दीर्घः । दधंसि दधन्थः । दधन्मि दधन्वः दधन्मः । दधान दधनतुः । धनिथ । दधनिव । धनिता । धनिष्यति । दधन्तु, दधन्तात् दधन्ताम् दधनतु दहि । दधनानि । अदधन् अदधन्ताम् अदधनुः । अदधन् अदधन्तम् अदधन्त । अदधनम् अदधन्व अदधन्म । दधन्यात् । धन्यात् । अधानीत् , अधनीत् । अधनिष्यत् । जन जनन इति । उत्पत्तौ अकर्मकः । उत्पादने सकर्मकः । जनसन । 'विड्वनो:-' इत्यत आदित्यनुवर्तते । तदाह एषामाकारोऽन्तादेश इति । सन् झल इत्यनयोः द्वन्द्वात् सप्तमीद्विवचनम् । सनि झलि चेति लभ्यते । 'अनुदात्तोपदेश-' इत्यतो झलि विडतीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते। तदादिविधिः। भलादौ सनीति लभ्यते । क्ङितीत्यनुवृत्तं तु एतत्सूत्रस्थेस भाला विशेष्यते । तदादिविधिः । भलादौ विङतीति लभ्यते । तथा च भलादौ सनीति झलादौ विडतीति च परनिमित्तद्वयं लब्धम् , तदाह भलादौ सनि झलादौ किङति चेति । सन्विशेषणं भलादाविति किम् ? जिजनिति । सिसनिषति । चिखनिषति । अथ क्डितोमविशेषणस्य प्रयोजनमाह जशतीति । जनन अति इति स्थित तुतूत इति । 'हलि च' इति दीर्घः । धन धान्ये । धान्या जन इत्यर्थः । दधन्त इति । छान्दसत्वाद् 'अनुनासिकस्य-' इति नेह दीर्घ इत्याहुः । जनसनखनाम् । जन जनने, जनी प्रादुर्भावे इत्युभयोरपि प्रहणम्। झलादी सनि सिषासति । जशतीति । 'गमहन-' इत्युपधालोपः । जजायादिति । 'ये विभाषा' इति वा