________________
प्रकरणम् ४५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३१६
११०० भर्त्सनदीप्योः । बभस्ति । 'घसिभसोर्हलि च' ( ३५५० ) इत्युप. धालोपः । 'झलो झलि' ( सू २२८१ ) इति सलोपः । बब्धः । बप्सति । कि ११०१ ज्ञाने | चिकेति । तुर ११०२ स्वरणे । तुतोर्ति तुतूर्तः तुतुरति ।
'
I
त्यस्यानाश्रयणादित्याहुः । ऐयरुरिति । ऐयः ऐयूतम् एयूत ऐयरम् ऐयूब ऐयूम । विधिलिब्याह इय्यादिति । यासुटो खित्त्वाद् गुणनिषेध इति भावः । इयृयाताम् इत्यादि । आशीर्लिंङयाह श्रर्यादिति । 'अकृत्सार्वधातुकयोः इति दीर्घः प्राप्तः । तं बाधित्वा 'रिङ् शयग्लिङ्नु' इति रिङ् प्राप्तः । तं बाधित्वा 'गुणोऽर्तिसंयोगाद्योः' इति गुण इति भावः । लुङयाह श्रारदिति । 'सर्तिशास्त्यर्तिभ्यश्च' इत्यङि 'ऋदृशोऽबि - ' इति गुण इति भावः । श्ररिष्यत् । तदेवम् ऋधातुं निरूप्य सृधातुं निरूपयति ससर्तीति । ससृतः सस्रति इत्यादि सुगमम् । ससार । ससर्थ । ससृव । सर्ता । सरिष्यति । ससर्तु । अससः असृताम् अससरुः । ससृयात् । स्त्रियात् । श्रसरत् । भस भर्त्सनेति । अयं सेट् । बभस्तीति । श्लौ भस् ति इति स्थिते द्वित्वे अभ्यासजश्त्वमिति भावः । बभस् तस् इति स्थिते आह घसिभसोरिति । 'घसिभसोर्हलि च' इत्यस्यायमर्थ:- - छन्दसि अनयोरुपधाया लोपः स्याद् इलादावजादौ च क्ङिति परे इति । तथा च बभस् तस् इत्यत्र उपधालोपे 'झलो झलि' इति सकारलोपे तकारस्य 'झषस्तथोः -' इति धत्वे भकारस्य जश्त्वमिति भावः । बप्सतीति । अभ्यस्तत्वाददादेशे बभस् अति इति स्थिते 'घसिभसोः' इत्युपधा• लोपे भकारस्य चर्त्वमिति भावः । बभस्सि बब्धः बब्ध । बभस्मि बप्स्खः बप्स्मः । बभास बप्सतुः बप्सुः । बभसिथ बप्सथुः बप्स । बभास, बभस बप्सिव बप्सिम | भसिता । भसिष्यति । बभस्तु, बब्धात् बब्धाम् बप्सतु । बब्धि, बब्धात् बन्धम् बब्ध । बभसानि बभसाव बभसाम । अबभः अबव्धाम् अबप्सुः । श्रबभः अबब्धम् अबब्ध । अबप्सम् अबप्स्व श्रवप्स्म । बप्स्यात् । भस्यात् । अभासीत्, अभसीत् । श्रभसिष्यत् । कि ज्ञाने । चिकेतीति । किधातोस्तिपि लौ द्वित्वे अभ्यासचुत्वे उत्तरखण्डस्य गुण इति भावः । चिकितः चिक्यति । चिकेषि चिकिथः चिकिथ । चिकेमि चिकिवः चिकिमः । चिकाय चिक्यतुः चिक्युः । चिकयिथ, चिकेथ । चिक्यिव । ता । केष्यति । चिकेतु, चिकितात् चिकिताम् चिक्यतु । चिकिहि । चिकयानि । श्रचिकेत् चिकितम् अचिकः । अचिकेः । अचिकयम् अचिकिव । चिकियात् । कीयात् । कैषीत् । यत् । तुर त्वरण इति । तुतूर्त इति । 'हलि च' इति दीर्घः । तर्षिर्थः तूर्थ । तुतोर्मि तुतूर्वः । तुतोर । तुतुरतुः । तुतोरिथ ।
।
शोse -' इति गुणः । बब्ध इति । तस्रस्तकारस्य 'झषस्तथो:-' इति धत्वम् ।
·