________________
३१८ ]
सिद्धान्तकौमुदी। [जुहोत्यादि होमान्' । ऋ १०१८ स १०६६ गतौ । 'बहुलं छन्दसि' ( सू ३.१६८ ) इत्येव सिद्ध 'अतिपिपश्च' (सू २४६३) इतीत्त्वविधानादयं भाषायामपि । 'अभ्यासस्यासवणे (सू २२६०) इतीयङ् । इयर्ति इयतः इयति । पार भारतुः । 'इडत्यति-' (सू २३८४) इति नित्यमिट । पारिथ । अर्ता । अरिष्यति । इयराणि । ऐयः ऐवृताम् ऐयरुः । इय्यात् । अर्यात् । भारत् । ससति । भस इत्त्वं छान्दसमिति भावः। ऋ सृ गताविति । इमावनिटौ । तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित् प्रयोगं समर्थयति बहुलमिति । 'भृञामित्' 'अर्तिपिपश्चि' 'बहुलं छन्दसि' इति सूत्रस्थितिः। तत्र बहुलं छन्दसत्येव ऋधातोरित्वसिद्धः ‘अतिपिपर्योश्च' इत्यर्तिग्रहणाल्लोकेऽपि ऋधातोः श्लुविकरणस्य प्रयोगो विज्ञायत इत्यर्थः । एतच्चात्रैव सूत्रे भाष्ये स्पष्टम् । अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोः 'अतिपिपोश्व' इत्यत्र ग्रहणम् । पिपर्तिसाहचर्याच्च, श्लावित्यस्य अभ्यासग्रहणस्य चानुवृत्तेश्चत्यलम् । अभ्यासस्यासवर्ण इति । शपः श्लो ऋति इति स्थिते द्वित्वे उरदत्त्वं बाधित्वा 'अतिपिपयोश्च' इत्यभ्यासऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् ति इति स्थिते 'अभ्यासस्यासवणे' इति इयङि इयर्ति इति रूपमित्यर्थः । इयत इति । पूर्ववदेव द्वित्वादि । तसः अपित्त्वेन ङित्त्वाद् गुणनिषेध इति भावः । इयूतीति । पूर्ववेदेव द्वित्वादि । अभ्यस्तत्वाददादेशः। उित्त्वान्न गुणः । उमरखण्डस्य ऋकारस्य यण रेफ इति भावः। इयर्षि इय॒थः । इयर्मि इयवः इय॒मः । लिट्याह
आरेति । थलि 'अचस्तावत्-' इति 'ऋतो भारद्वाजस्य' इति नित्यमिरिनषेधे प्राप्त आह इडत्त्यर्तीति नित्यमिडिति । आरिथ । आरिम । अर्तेति । अनिट्त्वादिति भावः । अरिष्यतीति । 'ऋद्धनोः स्ये' इति इडिति भावः । इयर्तु, इयतात् इयताम् इयतु । इयहि, इतात् इयतम् इयत । इयगणीति । आटः पित्त्वेन अङित्त्वान्न गुणनिषेध इति भावः । इयराव इयराम । ल थाह ऐय इति । श्लौ ऋत् इति स्थिते द्वित्वे अभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्डस्य गुणे रपरत्वे च हल्ङयादिलोपे रेफस्य विसर्गे इयः इति स्थिते आटि वृद्धौ ऐयः इति रूपमिति भावः। न च लावस्थायामडिति पक्षे आटि वृद्धौ रपरत्वे पार् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घ हल्ङयादिलोपे रेफस्य विसर्गे श्राः इति स्यादिति शङ्कयम् , 'बहुलं छन्दस्यमाङयोगेऽपि' इति बहुलग्रहणेन त्र लावस्थायामाडिइयङ्, अभ्यासादुत्तरस्य तु गुणः । इयतीति । 'अदभ्यस्तात्' इत्यत् । अर्यादिति । 'गुणोऽर्ति-' इति गुणः । प्रारदिति । 'सर्तिशास्ति -' इत्यङि 'ऋद्ध