________________
प्रकरणम् ४५] बालमनोरमा तत्त्वबोधिनीसहिता। [३१७ निज्यात् । अनिजत् , अनदीत्, अनिक। विजिर १०६४ पृथग्भावे । वेवेत्रि, वेविक्के । विवेजिथ । अत्र 'विज इट्' (सू २५३६ ) इति डिवं न, 'श्रो विजी' इत्यस्यैव तत्र ग्रहणात् । 'णिजिविजी रुधादावपि । विष्ल १०१५ च्यातौ । वेवेष्टि, वेविष्टे । लूदित्त्वादङ्, अविषत् । तङि क्सः। अजादौ 'क्सस्याचि' (सू २३३७ ) इत्यल्होपः । अविक्षत अविताताम् अविक्षन्त ।
अथ श्रागणान्तात्परस्मैपदिनश्छान्दसाश्च । धृ १०६६ क्षरणदीप्त्योः । 'जिधर्म्यनिं हविषा घृतेन' । 'भृक्षामित्' (स् २४६६) । 'बहुलं छन्दसि' (सू ३५६८) इतीरवम् । ह १०६७ प्रसाकरणे। 'अयं सुवोऽभिजिहर्ति नेनिजानीति । नेनिजाव नेनिजाम । नेनिलाम् नेनिजाताम् नेनिजताम् । नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् । नेनिजै नेनिजावहै नेनिजामहै । लङि परस्मैपदे थाह अनेनेगिति । अनेनिजुरिति । अभ्यस्तत्वाज्जुसिति भावः । अनेनेक् अनेनिक्लम् अनेनिक । अनेनिजम् । 'नाभ्यस्तस्य-' इति न गुणः । अनेनिज्व अनेनिज्म । निक्षीष्ट । लुब्याह अनिजदिति । इरित्त्वादविति भावः । अनिनेति। "भलो झलि' इति सिज्लोपः । अनिक्षाताम् इत्यादि । विजिरपि णिजिर्वत् । अत्रेति । थलि इट्पक्षे 'विज इट्' इति विहितं ङित्त्वं नेत्यर्थः । अतो न गुणनिषेध इति भावः । श्रो विजी इत्यस्यैवेति । व्याख्यानादिति भावः । रुधादावपीति । ततश्च 'रुधादिभ्यः श्नम्' इति श्नम्विकरणावपि ताविति भावः । विष्ल व्याप्ती इति । लुदित्, उभयपदी, अनिट् । सिजेरिव रूपाणि । वेवेष्टीति । ष्टुत्वेन तकारस्य टः । सिपि 'षढो:-' इति षस्य कत्वम् । वेवेक्षि वेविष्ठः । वैविड्ढि । अविषदिति । लदित्त्वादडिति भावः । तङि क्स इति । 'शल इगुपधात्-' इत्यनेनेति भावः । श्रागणान्तादिति । जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः । घृधातुरनिट् । तिपि श्लौ द्वित्वे अभ्यासकार्ये गुणे रपरत्वे जघर्ति । जघृतः जघ्रति । 'जघर्म्यनिं हविषा घृतेन' इति बढ्चमन्त्रपाठः । 'जिधर्म्यनिं मनसा घृतेन' इति तैत्तिरीयपाठः । अत्र इत्त्वमभ्यासस्याह भृशामिदिति । ननु तत्र त्रयाणामेव प्रहणमित्यत आह बहुलमिति । इत्त्वं छान्दसमिति भावः । जघार जघ्रतुः । जघर्थ । जघ्र । जघ्रिव । घरिष्यति । जघर्तु, जघृतात् जघ्रतु । जहि । जघराणि । अजघः अजघृताम् अजघरुः । अजघरम् अजघृव । जघृयात् । घ्रियात् । अधार्षीत् । अघरिष्यत् । ह प्रसहकरण इति । घृधातुबदूपाणि । अयं वो अभि. जिहर्ति होमानिति । खुवे साद्यमाने याजमानो मन्त्रः। अत्रापि अभ्यासस्य बहुलं छन्दसीतीत्वमिति । एतच्च पूर्वोक्तान्वयि । इयर्तीति । अभ्यासस्य