________________
सिद्धान्तकौमुदी। [जुहोत्यादिअथ त्रयः स्वरितेतः । णिजिर् १०३ शौचपोषणयोः । २५०२ निजां त्रयाणं गुणः श्लौ । (७-४-७५) णिजिर् विजिर् विरत एषामभ्यासस्य गुणः स्थाच्छलो । नेनेति नेनिकः नेनिजति । नेका । नेष्यति । नेनेक्तु । नेनिग्धि । २५०३ नाभ्यस्तस्याचि पिति सार्वधातुके । (-३-८७) लघुग्धगुणो न स्यात् । नेनिजानि । अनेनेक अनेनिलाम् अनेनिजुः । नेनिज्यात् । इति। थकारपरकत्वाद् भए । धत्थ । दधामि । दध्व इति । परनिमित्ताभावान्न भए । दध्मः । धत्ते इति । दधाते दधते । धत्से इति । स्कारपरकत्वाद्भषिति भावः । दधाथे। धध्वे इति। दध् वे इति स्थिते ध्वशब्दपरकत्वाद्भपिति भावः। दधे दध्वहे दध्महे । दधौ। दधे । धाता । धास्यति, धास्यते । दधातु, धत्तात् धत्ताम् दधतु । धेहीति । 'ध्वसोः-' इत्येत्त्वाभ्यासलोपातिति भावः । धत्तात् धत्तम् धत्त । दधानि दधाव दधाम । धत्ताम् दधाताम् दधताम् । धत्स्व दधाथाम् धद्ध्वम् । दधै दधावहै दधामहै । अदधात्, अधत्त । दध्यात्, दधीत । धेयात् , धासीष्ट । अधात् । अधितेति । 'स्थाघ्वोरिच' इति इत्त्वे 'हस्वादशात्' इति सिचो लोप इति भावः । अधास्यत् , अधास्यत । णिजिर । धातुः, अनिडयं णोपदेश इरित् । इकारस्य प्रत्येकमित्त्वाभावान नुम् । इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले श्रात्मनेपदं भवत्येव । तस्मादयमप्युभयपदी । एनं विजिरपि ज्ञेयः । निजां त्रयाणाम् । निजामिति बहुवचनात्तदादीनां प्रहणम् । 'अत्र लोप:-' इत्यतः अभ्यासस्येत्यनुवर्तते, तदाह णिजिर इत्यादिना । नक्तीति । श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखर इस्यानेन गुणे चोः कुत्वमिति भावः। अभ्यस्तत्वाददादेशं मत्वाह नेनिजतीति । नेनेक्षि नेनिक्थः नेनिक्थ। नेनेज्मि नेनिज्वः नेनिज्मः । नेनिक्ते नेनिजाते नेनिजते । नेनिक्षे नेनिजाथे नेनिग्ध्वे । नेनिजे नेनिज्वहे नेनिज्महे । निनज निनिजतुः निनिजुः । निनजिथ निनिजथुः निनिज । निनेज निनिजिव निनिजिम । निनिजे निनिजाते निनिजिरे । निनिजिषे निनिजाथे निनिजिध्वे । निनिजे निनिजिवह निनिजिमहे । नेक्ला । नेक्ष्यति । नेनेक्तु, नेनिकात् नेनिक्ताम् नेनिजतु । नेनिग्धीति । अपित्त्वेन ङित्त्व न गुणः । हेधिः । नेनिक्लात् नेनिलम् नेनित । 'श्राडुत्तमस्य-' इति पित्त्वेन अठित्त्वाल्लघूपधगुणे प्राप्ते नाभ्यस्तस्याचि । 'मिर्गुणः' इत्यतो गुण इति 'पुगन्त-' इत्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेष पूरयति लघूपधगुणो न स्यादिति । निजाम् । श्वाविति किम् , निनेज । नाभ्यस्तस्य । अभ्यस्तस्य किम् , द्वेषाणि । अचि किम् , वेवेष्टि । पिद्ग्रहणम् 'उतो घृद्धि कि हलि' इत्युत्तरार्थम् । सार्वेति किम् , निनेज।