________________
प्रकरणम् ४५] बालमनोरमा तत्त्वबोधिनीसहिता। [३१५ प्रदाताम् अदुः । अदित । दु धान १०६२ धारणपोषणयोः । 'दानेऽपि' इत्येके। प्राणिदधाति । २५०१ दधस्तथोश्च । (८-२-३८) द्विरुङ्गस्य झपन्तस्य धाञ्धातोर्बशो भष् स्यात्तथयोः परयोः ध्वोश्च परतः। 'वचनसामांदालोपो न स्थानिवत्' इति वामनमाधवौ । वस्तुतस्तु 'पूर्वत्रासिद्धे न स्थानिवत्' । धत्तः दधति । धस्थः धस्थ । दश्वः दध्मः । धत्ते । धत्से । धध्वे । धेहि । अधित । ददताम् । दत्स्व ददाथाम् दद्ध्वम् । ददै ददावहै ददामहै । लब्याह अददा. दिति । अददुरिति । अभ्यस्तत्वाद् जुस् । अददाः अदत्तम् अदत्त । अददाम् अदद अदद्म । विधिलिड्याह दद्यादिति । 'श्नाभ्यस्तयोः-' इत्याल्लोपः। आशी. लिडि तु 'एलिडि' इत्येत्त्वमभिप्रेत्याह देयादिति । दासीष्ट । लुङयाह अदादिति। 'गातिस्था-' इति सिचो लुगिति भावः। अदाः अदातम् अदात । अदाम् अदाव अदाम । लुड्यात्मनेपदे आह अदितेति अदा स् त इति स्थिते 'स्थावोरिच्च' इति दाधातोरन्त्यस्य इकारः सिचः कित्त्वं च। कित्त्वान गुणः । 'ह्रस्वादङ्गात्' इति सिचो लोप इति भावः, अदिषाताम् अदिषत । अदिथाः अदिषाथाम् अदिढम् । अदिषि अदिष्वहि अदिष्महि । अदास्यत् , अदास्यत । डु धाञ् । जित्त्वादुभयपदी । अनिट् । प्रणिदधातीति । 'नेर्गद-' इति णत्वम् । तसि श्लौ द्वित्वे अभ्यासजश्त्वे 'नाभ्यस्तयोः-' इत्याल्लोपे दध् तस् इति स्थिते दधस्तथोश्च । धाधातोः कृतद्वित्वस्य दधा इत्यस्य दधः इति षष्ठयन्तम् । 'एकाचो बशः-' इत्यतो मषन्तस्य बशो भष् इत्यनुवर्तते । त थ् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् । तकारादकार उच्चारणार्थः । तकारथकारयोरिति लभ्यते । चकारात् स्वोरिति समुच्चीयते । सकारे ध्वशब्दे चेति लभ्यते, तदाह द्विरुक्त. स्येत्यादिना । तथा च अभ्यासे दकारस्य धकारः, तकारपरकत्वात् । ननु 'नाभ्यस्तयोः' इत्याल्लोपस्य 'श्रचः परस्मिन्-' इति स्थानिवत्त्वान्न तकारपरकत्वम्, नापि झषन्तत्वमित्यत आह वचनसामर्थ्यादिति । वस्तुतस्त्विति । भष्भावस्य पूर्वत्रासिद्धीयत्वादेव तस्मिन् कर्तव्ये आल्लोपस्य स्थानिवत्त्वाप्रसक्तेर्वचनसामर्थ्याश्रयणक्लेशो वृथेति भावः । धस इति । धस्य चर्वेन त इति भावः । दधतीति । 'अदभ्यस्तात्' इत्यदादेशे 'नाभ्यस्तयोः-' इत्याल्लोपः । धत्थ दीत्वं तु न । अदादिति । 'गातिस्था-' इति सिचो लुक् । दधस्तथोश्च । दध इति कृतद्विर्वचनाभ्यासकार्यों धामेव गृह्यते न तु दध धारण इत्ययमिति म्याचष्टे द्विरुक्तस्येति । झषन्तस्य किम्, दधाति । नन्वेवं धत्ते इत्यादावपि न स्थादालोपस्य स्थानिवत्त्वेनाझशन्तत्वादत आह वचनसामर्थ्यादिति ।