________________
३१४ ]
सिद्धान्तकौमुदी। [जुहोत्यादि जहौ । जहितात् । २४६६ आजदो। (६-४-११७ ) जहातेही परे श्रा स्याचादिदीतौ । जहाहि, जहिति, जहीहि । अजहात् । अजहुः । अजहाः । २५०० लोपो यि । (६-8-११८) जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । 'एलिङि' (सू २३७१ ) हेयात् । श्रहासीत् । डु दाग १०६१ दाने । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । 'ध्वसोः-' (सू २४०१) इत्येत्त्वाभ्यासलोपौ । देहि । अददात् अदत्ताम् अददुः । दद्यात् । देयात् । श्रदात् पूरयति इत्स्याद्वेति । जहतीति । अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः-' इत्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ, जहाथ जहथुः जह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम्, जहीताम जहतु । आ च हो । आ इति लुप्तप्रथमाकम् । जहातेरिति । 'जहातेश्व' ? त्यतस्तदनुवृत्तेरिति भावः । चादिदीताविति । 'इद्दरिद्रस्य' इत्यत 'ई हल्यघोः' इत्यतश्च तयोरिह चकारेणानुकर्षादिति भावः । जहितात् , जहीतात् जहितम् , जहीतम् जहित, जहीत । जहानि जहाव जहाम । लङयाह अजहादिति । धजहिताम् , अजही. ताम् अजहुः । अजहा इति । अजहितम् , अजहीतम् अजहित , अजहीत । अजहाम् अजहिव, अजहीव अजहिम, अजहीम । लोपो यि । 'जहातेश्च' इत्यतो जहातेरिति 'नाभ्यस्तयोरातः' इत्यत आत इति, 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते । यि इति सप्तम्यन्तं सार्वधातुका शेषणम् । तदादि. विधिः, तदाह जहातेरित्यादिना । 'जहातेश्व' इत्यस्यापवादः । आशीलिब्याह एलिङीति । अहासीदिति। 'यमरम-' इति सगिटौ । अहास्यत् । डु दाज। उभयपदी अनिट् । प्रणिददातीति । 'नेगद-' इति णत्वम् । दत्त इति । ददा तस् इति स्थिते अघोरिति पर्युदासादीत्त्वाभावे 'नान्यस्त यो:-' इत्या. लोपः। ददतीति । अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः-' इत्याल्लोप इति भावः । ददासि दत्थः दत्थ । ददामि दद्वः दद्मः । दत्ते इति । ददाते ददते । दत्से ददाथे दद्ध्वे । ददे दद्वहे दद्महे । ददौ इति । ददतुः ददुः । ददिथ, ददाथ ददथुः दद । ददौ ददिव ददिम । ददे ददाते ददिरे। ददिषे ददाथे ददिध्वे । ददे ददिवहे ददिमहे । दाता । दास्यति, दास्यते । ददातु, दत्तात् दत्ताम् ददतु । इति सिद्भ वत्कृत्य देहि इत्यत्राह ध्वसोरिति । दत्तात् दत्तम् दत्त । ददानि ददाव ददाम । दत्ताम् ददाताम् किम्, हीयते । चादिदीताविति । अत एव भट्टिः प्रायुक्त- 'जहिहि जहीहि जहाहि रामभार्याम्' इति । लोपो यि । सार्वेति किम् , हेयात् । प्रणिददातीति । 'नर्गद-' इति णत्वम् । दत्त इति । 'नाभ्यस्तयोः-' इत्यालोपः । अघोरित्युक्त्या