________________
३१२]
सिद्धान्तकौमुदी। [ जुहोत्यादि२४६६ भृमामित् । (७-४-७६) भृत् माङ् श्रोहाङ् एषां त्रयाणामभ्या. सस्य इत्स्यात् श्लौ। विभर्तिः विभृतः विभ्रति। विभृध्वे । श्लुवद्भावाद् द्विस्वस्वे । बिभरामास, वभार । बभर्थ । बभूव । विभृहि । बिभराणि । अबिभः भविभृताम् अबिभरुः । विभूयात् । भ्रियात् । भृषीष्ट । प्रभार्षीत् । अभृत। भृमिति । अनिडयं त्रित्वादुभयपदी। 'लौ सति द्वित्वादौ बिभर्तीत्यादि स्थितम् । भृञामित् । भृञामिति बहुवचनाद् भृत्रादीनामिति लभ्यते। 'अत्र लोप:-' इत्यतः अभ्यासस्येति 'निजां त्रयाणां गुणः श्लौ' इत्यतः प्रयाणां श्लाविति चानुवर्तते, तदाह भृञ् माङित्यादिना। बिभ्रतीति । अभ्यस्तत्वाददादेशे यण । बिभर्षि विभृथः बिभूथ । बिभर्मि बिभूवः बिमृमः । विभुते बिभ्राते बिभ्रते । बिभृषे बिभ्राथे-इति सिद्धवत्कृत्याह बिभृध्व इति । बिभ्रे बिभृवहे बिभृमहे । श्लुवद्भावादिति । 'भीहीभृहुवाम्-' इत्यनेन इति भावः । बिभरामासेति। अनुप्रयोगसामर्थ्यादस्तेः भूभावो नेति भावः। बभारेति । श्लावित्यनुवृत्तेः 'भृआमित्' इति नेत्त्वम् । बभ्रतुः बभ्रः इत्यपि ज्ञेयम् । 'कृसभृवृ-'इति लिटि इरिनषेधः । थल्यपि 'अचस्तास्वत्-' इति नित्यमिसिनषेधः, ऋदन्तत्वेन भारद्वाजमतेऽपि निषेधात् , तदाह बभर्थेति । बभ्रथुः बभ्र । बभार, बभर इति सिद्धवत्कृत्याह बभूवेति । क्रादित्वादिरिनषेध इति भावः । बत्रे बभ्राते बभ्रिरे । बभृषे बभ्राथे बमृट्वे । बभ्रे बभूवहे बभृमहे । भर्ता । भरिष्यते । बिभर्तु, बिभृतात् बिभृताम् बिभ्रतु-इति सिद्धवत्कृत्याह बिभृहीति । हेरपित्त्वेन ठित्त्वाद् गुणनिषेध इति भावः । बिभृतात् बिभृतम् बिभृत इति सिद्धवत्कृत्याह बिभराणीति । आटः पित्त्वेन ङित्त्वाभावान गुणनिषेध इति भावः । बिभराव बिभराम । लङ्याह अविभरिति । अबिभू त् इति स्थिते गुणे (परत्वे हल्ङयादि. लोपे रेफस्य विसर्ग इति भावः । अबिभरुरिति । अभ्यस्तत्वाद् झर्जुस् 'जुसि च' इति गुणः। अबिभः अविभृतम् अबिभृत। अबिभरम् अबिभूव बेभृम । अबिभृत अबिभ्राताम् अबिभ्रत । अबिभृथाः अबिभ्राथाम् अबिभृध्वम् । अबध्रि अबिभूवहि अबिभृमहि । आशीलिङयाह भ्रियादिति। 'रिशयग्लिक्षु' इति रिङ । आत्मनेपदे श्राशीलिब्याह भृपीष्टेति । 'उश्च' इति कित्त्वान गुणः । अभार्षीदिति । अनिट्वान सिज्लोपः । सिचि वृद्धिः रपरत्वमिति भावः । श्रभामित्यादि ।
आत्मनेपदे लुङ्याह अभृतेति । 'हस्वादङ्गात्' इति सिचो लोपः। अमृषातामित्यादि। मम् । भृनामित् । णिजां त्रयाणामित्यतोऽनुवर्तनादाह एषां त्रयाणामिति । केचित्तु कपिजलाधिकरणन्यायेन त्रयाणामिति लभ्यत इत्याहुः। प्रथाणां किम् ,