________________
३१० ]
सिद्धान्तकौमुदी। [जुहोत्यादि२४६३ अतिपिपोश्च । (७-४-७७) अभ्यासस्येकारोऽन्तादेशः स्यात् श्लौ । २४६४ उदोष्ठयपूर्वस्य । (७-१-१०२) अशावयोष्ठ्यपूर्वो य ऋत् वदन्तस्याङ्गस्य उत्स्यात्। गुणवृद्धी परस्वादिमं बाधेते। पिपर्ति। उत्वम्, रसरस्वम्, 'हलि च' (सू. ३५४ ) इति दीर्घः । पिपूर्तः पिपुरति । पपार। किति विटि 'भीह्रीभृहुवाम्-' इत्याम् । श्लुवत्त्वाद् द्वित्वादीति भावः । जिहायेति । जिहयिथ, जिह्रथ । जिहियिव । हेता । हेष्यति । जिहेतु, जिह्रीतात्। जिह्रीहि । जिह्रयाणि । अजिहेत् । जिहीयात् । ह्रीयात् । अद्वैषीत् । अहे यत् । पृधातुः सेट् । लटस्तिपि शपः श्लौ द्वित्वे पृ पृ इति स्थिते नर्तिपिपयोश्च । 'अत्र लोप:-' इत्यस्मादभ्यासस्येति 'भृञामित्' इत्यस्माद् इदिति 'निजां त्रयाणाम्-' इत्यतः श्लाविति चानुवर्तते इत्यभिप्रत्य शेषं पूरयति अभ्यासस्येत्यादिना। तथा च अभ्यासे ऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति । तत्र उत्तरखण्डे ऋकारस्य उत्वं शङ्कितुमाह उदोष्ठा । 'ऋत इद्धातोः' इत्यत ऋत इत्यनुवर्तते । 'अनस्य' इत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयव. षष्ठ्यन्तम् ओष्ठ्यस्य विशेषणम् , अपरं तु ऋता विशेष्यते, तदन्तविधिः, तदाह अगावयवौष्टयेत्यादिना। 'अन्नावयवेति' किम् ? समीर्णः : 'ऋ गतौ' ऋयादिः, तस्मात्संपूर्वात् प्रत्यये 'श्रशकः किति' इति इएिनषेधे 'ऋत इद्धातोः' इति इत्वे रपरत्वे 'हलि च' इति दीर्घ 'रदाभ्याम्-' इति निष्ठानत्वे तस्य णत्वे समीर्ण इति रूपम् । तत्र मकारात्मकौष्ठ्यपूर्वत्वादित्त्वं बाधित्वा उर्व स्यात् । अत्रावर वेत्युक्तौ तु मकारस्य
ओष्ठ्यस्य अङ्गावयवत्वाभावादुत्त्वं न भवति । तथा च प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता । तां परिहरति गुणवृद्धी इति। इसमिति । उत्वविधिमित्यर्थः । पिपर्तीति। उत्त्वात्परत्वाद् गुण इति भावः । पिप तस् इति स्थिते आह उत्त्वमिति । डिवेन गुणाभावाद् 'उदोष्ठय-' इत्युत्त्वमिति भावः । पिपुर. तीति । अभ्यस्तत्वाददादेश ङित्त्वाद् गुणाभत्वादुत्वमिति भावः। पिपर्षि पिपूर्थः पिपूर्थ । पिपर्मि पिपूर्वः पिपूर्मः। लिटि णल्याह पपारेति । उत्त्वात्परत्वाद् वृद्धि. रिति भावः । 'अतिपिपयोश्च' इत्यभ्यासस्य नेत्रम् , तत्र श्लावित्यनुवृत्तेः । प्राप्त भीयते । बेभीयते। हलादौ किम् , बिभ्यति। क्लिति किम , बिभेति । केचिदत्र हलादौ विडतीत्येतनातीवोपयुज्यते, इत्वविधानस्य बिभित इत्यादी चरितार्थत्वात् , विभ्यति विभेतीत्यादौ यणादेः प्रवृत्तिसंभवादित्याहुः। अतिपिपोश्च । अर्तेरुदाहरणमियर्तीति वक्ष्यति । उदोष्ठ्य । अङ्गावयवेति किम् , ऋ गतौ क्रयादि. स्तस्मात् क्वप्रत्यये 'श्रयुकः किति' इति इएिनषेधात् समीर्ण इति भनति । अन्यथा