________________
प्रफरणम् ४५ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३०६ निव्याम्वा स्यात् , भामि श्लाविव कार्य च। जुहवांचकार, जुहाव । होता। होम्यति । जहोत, जुहुतात् । 'हेर्षिः' जुहुधि । प्राटि परत्वाद्गणः । जुहवानि । परत्वाद् 'जुसि च' (सू २४८१) इति गुणः । अजुहवुः । जुहुयात् । हूयात् । महौषीत् । जि भी १०८४ भये । बिभेति । २४६२ भियोऽन्यतरस्याम् । (६-४-११५) इकारः स्यादलादौ विडति सार्वधातुके । बिभितः, बिभीतः बिभ्यति । विभयांचकार, विमाय । भेता। ही १०८५ लजायाम् । जिहेति जिवीतः जिहियति । जिह्रयांचकार, जिहाय । पृ १०८६ पालनपूरणयोः । भिप्रेत्याह अामि श्लाविव कार्य चेति । जुहवामिति । ग्रामि श्वाविव द्वित्वे गुण इति भावः । जुहावेति। जुहुवतुः। जुहविथ, जुहोथ । जुहुविव । हेर्धिरिति । 'हुभल्भ्यो हेर्धिः' इत्यनेनेति भावः। जुहवानीत्यत्र आटः पित्त्वेन अङित्त्वाद् गुणे प्राप्ते तं बाधित्वा 'हुश्नुवोः-' इति यणि प्राप्त आह आटि परत्वादिति। 'हुश्नुवोः-' इत्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः । लङि अजुहोत् अजुहुताम् इति सिद्धवत्कृत्य 'सिजभ्यस्त-' इति जुसि 'हुश्नुवोः-' इति यणमाशश्याह परत्वाज्जुसि चेति गुण इति । अजुहवुरिति । अजुहोः अजुहुतम् अजुहुत । अजुहवम् अजुहुव अजुहुम । अहौषीदिति। सिचि वृद्धिः। अही. ष्टामित्यादि । अहोष्यत् । त्रि भी भय इति । अनिट् ईदन्तः। शपः श्लो द्वित्वादि मत्वाह बिभेतीति । भियोऽन्यतरस्याम् । इद्दरिद्रस्य' इत्यत इदिति 'गमहन-' इत्यतः क्तिीति 'ई हल्यघोः' इत्यतो हलीति 'अत उत्-' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति इकारः स्यादित्यादिना। विभ्यतीति । 'अदभ्यस्तात्' इत्यत् । बिभयामिति । 'भीह्रीभृहुवा श्लुवच्च' इति श्लुवत्त्वाद् द्वित्वादीति भावः । विभायेति । बिभ्यतु । विभयिथ, बिभेथ । बिभ्यिव बिभ्यिम । भेतेति । भेष्यति । बिभेतु, बिभितात् , बिभीतात् बिभिताम् , बिभीताम् बिभ्यतु । बिभिहि, विभीहि, बिभितात् , बिभीतात् बिभितम् , बिभीतम् बिभित, विभीत । विभयानि बिभयाव बिभयाम । अबिभेत् अबिभिताम् , अबिभीताम् अबि. भयुः । अबिभेः अबिभितम् , अबिभीतम् अबिभित, अबिभीत। अबिभयम् अबिभिव, अबिभीव अबिभिम, अबिभीम । बिभियात् , बिभीयात् इत्यादि । श्राशी. लिडि भीयात् भीयास्ताम् । अभैषीत् । अभेष्यत् । ही लजायामिति । अनिट् । जिहियतीति । 'अदभ्यस्तात्' इत्यत् । इयङ् । जिह्वयामिति । शन्तत्वात् । आटाति । 'पाडुत्तमस्य-' इत्यनेन । परत्वादिति । 'हुश्नुवो:-' इति यणपेक्षया परत्वादित्यर्थः । भियोऽन्यतरस्याम् । सार्वधातुके किम्