________________
३०८] सिद्धान्तकौमुदी। [जुहोत्यादि
अथ तिङन्ते जुहोत्यादिप्रकरणम् ।। ४५ ॥
हु १०८३ दानादनयोः । 'श्रादाने च' इत्येके । 'प्रीणनेऽपि' इति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः । २४८६ जुहोत्यादिभ्यः श्लुः । (२-४-७५) अपः श्लुः स्यात् । २४६० श्लौ। (६-१-१०) धातोढ़े स्तः । जुहोति जुहुतः । 'मदभ्यस्तात्' (सू २४७६) इत्यत् । 'हुश्नुव:-' (सू २३८७) इति यण् । जुह्वति । २४६१ भीहीभृहुवां श्लुवच्च । (३-१-३६) एतेभ्यो
अथ श्लुविकरणा धातवो निरूप्यन्ते । हु दानादनयोरिति । दाने अदने चेत्यर्थः । भाष्यमिति । 'तृतीया च होश्छन्दसि' इति सूत्रस्थमिति शेषः । ननु यदि दानमिह प्रसिद्ध विवक्षितं तर्हि ब्राह्मणाय गां ददातीत्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह दानं चेह प्रक्षेप इति । नन्वेवमपि कूपे घटं प्रक्षिपति, श्राहवनीये जलं प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोगः स्यादित्यत अाह स चेति । स प्रक्षेपः विधिबोधिते अाधारे अाहवनीयादौ पुरोडांशादिहविध इति लभ्यते इत्यन्वयः । कुत इत्यत आह स्वभावादिति । अनादिसिद्धलोकव्यवहारादित्यर्थः। तथा च विधिबोधित आधारे विधिबोधितस्य देवतायै त्यज्य मानस्य हविषः प्रक्षेपे हुधातुर्वर्तते इति फलितम् । एतच्च पूर्वमीमांसायां तृतीये 'सर्वप्रदानं हविषस्तदर्थत्वात्' इत्यधिकरणे श्रध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । जुहोत्यादि. भ्यः श्लुः । शप इति । श्रादिप्रमृतिभ्यः-' इत्यतस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु ति इति स्थिते श्लो। शेषं पूरयति धातो स्त इति । 'एकाचो द्वे-' इत्यतो 'लिटि धातोः-' इत्यतश्च तदनुवृत्तेरिति भावः । द्वित्वे कृते अभ्यासकार्यमभिप्रेत्याह जुहोतीति । यरिणति । उवङपवाद इत्यर्थः । भीही । भी ह्री भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी । 'कास्प्रत्ययात्-' इत्यत श्राम् लिटीत्यनुवर्तते, तदाह एतेभ्य इति । श्लुवदिति सप्तम्यन्ताद्वतिरित्य
हु दाना । यद्यपि स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनमेव दानं तथापि प्रयोगमनुसृत्य व्याचष्टे प्रक्षेप इति । वैध इति । आहवनीय दौ। हविष इति । विधिबोधितद्रव्यस्येत्यर्थः । स्वभावादिति । तेन आहवनीये पुरोडाशे प्रक्षेप्तव्ये प्रमादेन कोपेन वा पाषाणः प्रक्षिप्तः पुरोडाशो वा गर्तादौ तु प्रक्षेपो न होम इति शेयम् । परस्मैपदिन इति । तेन ‘होऽये' इति केचित्प्रयोगोऽसाधुरेव । 'स्मराग्नौ जुबानाः' इत्यानन्दलहरीप्रयोगस्तु साधुरेव । शनचोऽप्रवृत्तावपि चान