________________
प्रकरणम् ४४ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३०७ भवाशीत् , अवशीत् । 'चर्करीतं च' १०८१ (ग. सू. १३५)। यब्लुगन्तमदादौ बोध्यम् । हुङ् १०८२ अपनयने । हृते । जुङ्गवे । हुवीत । होषीष्ट । प्रबोष्ट ।
॥ इति तिइन्तेऽदादिप्रकरणम् ॥
उश्यादिति सिद्धवत्कृत्याह उश्याताम् । उश्यास्तामिति । अवशीत् , श्रवाशीत् । अवशिष्यत् । तदेवं दीधील वेवी षस पस्ति वश एते पञ्च धातवः छान्दसा एवेति माधवादयः । तत्र 'दीधीवेवीटाम्' इति सूत्रे दीधीवेव्योः छन्दो. विषयत्वादिति भाष्यम् । 'जक्षित्यादयः षट् इति सूत्रे षसिवशी छान्दसाविति माष्यम् । एतद्भाध्यादेव षस्तिधातोर्मात्र पाठ इति प्रतीयते । अत एव 'षस शास्ति स्वप्ने' इति पाठमभ्युपगम्य श्तिपा निर्देशन शास एवार्थभेदात् पुनः पाठ इति कैयट आह । अत्र वशधातोरपि छान्दसत्ववचनं प्रायिकम् , 'वष्टि भागुरिरोपम्' 'जयाय सेनान्यमुशन्ति देवाः' इत्यादिप्रयोगदर्शनादित्यास्तां तावत् ।।
चर्करीतं चेति । धातुपाठे गणसूत्रमिदम् । 'चर्करीतम्' इति यलुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा, तदाह यलुगन्तमदादाविति । तेन यङलुगन्ताच्छवेव विकरणः, तस्य लुक् , न तु श्यनादि विकरणान्तरम् । परस्मैपदिन इत्युपक्रमाद्यङ्. लुगन्तस्य परस्मैपदित्वमेव । हङ् अपनयन इति। अनिडयम् । हूत इति । हृवाते हृवते इत्यादि । जुह्नव इति । जुह्ववाते जुलविरे । कादिनियमादिद, जुहविषे । जुडविवहे । होता । होष्यते । हृताम् । हुष्व । हौं हवावहै । अहतइति सिद्धवत्वकृत्य विधिलिड्याह इनुवीतेति । आशीलिंब्याह होषीष्टेति । लुब्याह अहोटेति । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां लुखिकरणं समाप्तम् ।
'वष्टि भागुरिरल्लोपम्' 'जयाय सेनान्यमुशन्ति देवाः' इति । चर्करीतं च । गणसूत्रमिदम् । चर्करीतमिति यड्लुगन्तस्य पूर्वाचार्याणां संज्ञा । अदादौ बोध्यमिति । तेन यङ्लुगन्तेषु 'अदिप्रमृतिभ्यः-' इति शपो लुग् भवतीति भावः । प्राचा तु चर्करीतमिति यब्लुगन्तं परस्मैपदमित्युक्तम् , तहाप्रकृतत्वादुपेक्षितम् ।
इति तत्त्वबोधिन्यामदादिप्रकरणम् ।