________________
३०६ ]
सिद्धान्तकौमुदी। [ अदादिसमवाये इयोः संयोगसंज्ञा नेत्याश्रित्य 'स्को:-' (सू ३८० ) इति लोपाभा. वाद संस्ति संस्तः संस्वन्ति इत्येके । वश १०८० कान्ती । कान्तिरिच्छा । वष्टि उरः उशस्ति । वपि उष्ठः । उवाश ऊशतुः। वशिता । वष्टु, उष्टात् उष्टाम् । उडि । भवद् औष्टाम् भौशन् । अवशम् । उश्याताम् । उश्यास्ताम् ।
अनभ्यस्तत्वादन्तादेश एवेति भावः । सिपि संस्त् सि इति स्थिते 'स्को:-' इति सलोपे अनुस्वारस्य परसवर्णो नकारः। सवर्णपरत्वामावाद् 'झरो झरि' इति तकारलोपो न । सत्सि सन्थः सन्थ । संस्त्मि संस्त्वः संस्त्मः । ससंस्त ससंस्ततुः । ससंस्तिथ । ससंस्तिव ससंस्तिम। संस्तिष्यति । सन्तु, सन्तात् सन्ताम् संस्तन्तु । संसत् हि इति स्थिते हेधिभावे 'स्कोः' इति सलोपे परसवर्णे सन्त धि इति स्थिते "झरो मरि' इति तकारस्य लोपः, सन्धि । लोपाभावे तकारस्य जश्त्वे सन्धि, सन्तात् सन्तम् सन्त । संस्तानि संस्ताव संस्ताम । लस्तिपि असस्तू तू इति स्थिते हल्ल्यादिलोऐ संयोगादिलोपे संयोगान्तस्य लोपे असन् । असन्ताम् असंस्तन् । असन् असन्तम् असन्त । असंस्तम् असंस्त्व असंस्त्म । संस्त्यात् । प्रसंस्तीत् । असंस्तिष्यत् । मतान्तरमाह बहनामिति । इत्याश्रित्येति। तथा च प्रकृते लुस्तिपि संस्त् ति इति स्थिते झलि परे अनुखार सकारतकारणां त्रयाणां समवायात् स् त् इत्यनयोः संयोगसंज्ञाविरहात् 'स्को:-' इति लोपाभावात् संस्तीत्यायमित्यर्थः। वश कान्ताविति । कान्तिरिच्छा । सेट् । वष्टीति । 'वश्व-' इति शस्य षत्वे तकारस्य ष्टुत्वेन टः । उष्ट इति । विति 'प्रहिज्या-' इति संप्रसारणे रूपमिति भावः । उवाशेति। लिटि अकिति 'लिय्यभ्यासस्य-' इति संप्रसारणमिति भावः । ऊशतुरिति । परत्वाद् अहिज्येति संप्रसारणे कृते द्वित्वे हलादिशेषे सवर्णदीर्घ इति भावः । उवशिथ ऊशथुः ऊश । उवाश, उवश ऊशिव ऊशिम । वेशितेति। अनेन सेटत्वं द्योतितम्। वशिष्यति । उष्टामिति । उशन्त्वित्यपि ज्ञेयम् । उड्ढीति । वश् हि इति स्थिते धिभावे अपित्त्वेन जित्वाद् अहिज्येति संप्रसारणे शस्य षत्वे धस्य ष्टुत्वेन ढकारे षस्य जश्त्वेन ड इति भावः । वशानि वशाव वशाम । लब्याह अवडिति। हल्ल्यादिलोपे शस्य षः, षस्य डः, तस्य चत्वविकल्प इति भावः । औशन्निति । अवर श्रौष्टम् श्रौष्ट । अवशमिति । षित्त्वान्न संप्रसारणमिति भावः । औश्व औश्म । विध्याशीलिः
इति सलोपे 'झरो झरि सवर्णे' इति तकारस्य वा लोपः । संस्ति संस्त इति । इहापि पूर्ववत्ततोपो वा बोध्यः । वश कान्तौ । भाषायामप्यस्य प्रयोगो दृश्यते ।