________________
प्रकरणम ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०५
अथ त्रयः परस्मैपदिनः। षस १०७८ पस्ति १०७६ स्वमे । सस्ति सस्तः ससन्ति । ससास सेसतुः । सस्तु । सधि । 'पूर्वत्रासिद्धम्' (सू १२) इति सखोपस्यासिद्धत्वाद् 'श्रतो हेः' (स २२०२) इति न लुक् । असत् प्रसस्ताम् । मसः, असत् । सस्यात् । प्रसासीत्, प्रससीत् । सन्ति । सन्तः। संस्तन्ति। बहूना
निषेध इत्यर्थः । दीधितेति । इति कृते इवर्णपरकत्वादीकारस्य लोप इति भावः । दीधीताम् दीध्याताम् दीध्यताम् । दीधीष्व दीध्याथाम् दीधीध्वम् । दीप्यै दीध्या. वहै दोध्यामहै। अदीधीत अदीध्याताम् अदीध्यत । अदीधीथाः श्रदीध्याथाम् अदीधीध्वम् । अदीधि अदीधीवहि अदीधीमहि । दीधीत दीधीयाताम् । दीधिषीष्ट दीधिषीयास्ताम् दीधिषीरन् । अदीधिष्ट । अदीधिष्यत । वस्तुतस्तु छन्दसि दृष्टा. नुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् । वेवी वेतिना तुल्य इति । दीधीवद्रूपाणि । इति जक्षित्यादयः ।
षस षस्ति स्वप्न इति । षोपदशावेतौ। द्वितीय इदित् । तत्र षसधातोरुदाहरति सस्तीति । ससन्तीति । अनभ्यस्तत्वादन्तादेश एवेति भावः । एत्त्वाभ्यासलोपौ मत्वाह सेसतुरिति । सेसुः । सेसिथ सेसथुः सेस । ससास, ससस सेसिव सेसिम । ससिता । ससिष्यति । सस्तु, सस्तात् सस्ताम् ससन्तु । सस् हि इति स्थिते हेधिभावे 'धि च' इति सलोपं मत्वाह सधीति। तत्र धि इत्यस्य स्थानिवत्त्वेन हित्वाद् 'श्रतो हेः' इति लुकमाशङ्कयाह पूर्वति । सस्तात् सस्तम् सस्त । ससानि सवाव ससाम । लङ्याह असदिति। असस् त् इति स्थिते हल्ङयादिना तकारलोपे 'तिप्यनस्तेः' इति सस्य दत्वमिति भावः । प्रसस्तामिति । अससन् इत्यपि ज्ञेयम् । लङः सिपि तु असस् स् इति स्थिते 'सिपि धातो:-' इति रु पक्षे दः, हल्ङयादिलोपः, तदाह असा, असदिति। असस्तम् असस्त । अससम् श्रसस्व असस्म । लिब्याह सस्यादिति। सस्याताम् । सस्यास्ताम् इत्यादि । लुयाह असासीदिति । अतो हलादेः-' इति वृद्धिविकल्प इति भावः । अससिष्यत् । अथ षस्तिधातोरुदाहरति । सन्तीति । इदित्त्वान्नुम् । 'नश्व-' इत्यनुस्वारे सस् त् ति इति स्थिते, 'स्को:-' इति सलोपे, परसवर्णे, 'झरो झरि' इति प्रथमतकारस्य लोपविकल्पे, एकतं द्वितं वा रूपमिति भावः। संस्तन्तीति ।
दीधिष्यते । वेविता । वेविष्यते । यीवर्णयोरिति किम्, आदीध्यनम् । आवेव्यनम् । षस । असदिति । 'तिप्यनस्तेः' इति दत्वम् । अस इति । 'सिपि धातो:-' इति रुर्वा । पक्षे दः । सन्तीति । इदित्त्वान्नुमि सन्स्त् ति इति स्थिते 'स्को:-'