________________
३०४ ]
सिद्धान्तकौमुदी ।
[ श्रदादि
,
सिद्धत्वाद्धेर्धिः । शाधि । अशात् श्रशिष्टाम् अशासुः । अशात् श्रशाः । शिष्यात् । ' सर्तिशास्ति -' ( सू २३८२ ) इत्यङ् । श्रशिषत् । श्रशासिष्यत् । दाधी १०७६ दीप्तिदेवनयोः । एतदादयः पञ्च धातवश्वान्दसाः । दीधीते । 'एरनेकाच:-' ( सू २७२ ) इति यत् । दीध्याते । २४८८ यीवर्णयोर्दीधीवेव्योः । ( ७-४-५३ ) एतयोरन्स्यस्य लोपः स्याद्यकारे इवर्णे च परे । इति लोपं बाधित्वा freeवाट्टेरेश्वम् दीध्ये । 'दीधीवेवीटाम्' ( सू २११० ) इति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते । वेवीङ् १०७७ वेतिना तुल्ये । वी गतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ।
>
इत्त्वापवादः । ननु शासेः शाभावे सति भल्परत्वाभावात्कचं हेर्भिरित्यत आह तस्याभीयत्वेनेति । यद्यपि 'धि च' इति सलोपे शाधीति सिद्धम् । तथापि सलोपस्यासिद्धत्वात् 'शास इत्' इति इत्वं स्यात् । तन्निवृत्तये शाविधानमित्याहुः । तयाह अशादिति । 'तिप्यनस्ते:' इति दत्वे चविकल्प इति भावः । प्रशासुरिति । अभ्यस्तत्वाज्जुसिति भावः । अशाः, अशादिति । 'सिपि धातो:-' इति रुत्वदत्वविकल्प इति भावः । अशिष्टम् अशिष्ट । अशासम् अशिष्व अभिष्म । शिष्यादिति । 'शास इत्-' इति इत्वे 'शासिवसि -' इति ष् इति भावः । अशिषदिति । इत्त्वमिति भावः । दीधीङ्घातुरीकारान्तः । ङित्त्वादात्मनेपदी । एतदादयः पञ्श्चेति । इदं च माधवानुरोधेन । तत्त्वं त्वग्रे वक्ष्यते । जति यादित्वादभ्यस्तत्वाज्मस्य अदादेशः । दीध्यते । दीधीषे दीध्याथे दीधीध्वे । लट इडादेशे श्राह यीवयोर्दीधीवेव्योः । विश्व इवर्णश्चेति द्वन्द्वात्सप्तमी । यि इत्यत्र इकार उच्चारणार्थः । ' तासस्त्योः -' इत्यतो लोप इत्यनुवर्तते । 'अलोऽन्त्यस्य' इत्यन्त्यस्य लेपः, तदाह एतयोरित्यादि । श्रादीध्य गतः आवेण्य गतः - अत्र ल्यपि ईकारस्य लोपः । इवर्णे उदाहरणं वक्ष्यते । इति लोपमिति । लट इडादेशे दीधी : इत्यत्र 'यीवर्णयो:-' इति इवर्णपरत्वात्प्राप्तं लोपं परमपि बाधित्वा नित्यत्वाट्टेरेत्त्वमित्यर्थः । कुते अकृते च लोपे प्रवृत्तेरेत्त्वं नित्यम् । तस्मिन्कृते यीवर्णपरकत्वाभावान्न लोप इति भावः । गुणनिषेध इति ।। दीधी आमिति स्थिते 'सार्वधातुकार्धधातुकयोः' इति प्राप्तस्य
1
सलोपस्यासिद्धत्वात् 'शास इत्-' इति इत्वं स्शत्, तद्वारण य शाविधानमित्याहुः । यीवर्णयोः । वोरित्युक्तेऽपीष्ठासद्धौ यकारेकारयोरिति स्फुटप्रतिपत्तिर्न स्यादिति वर्णग्रहणं कृतम् । यिश्च इवर्णश्च यीवर्णौ तयोः । विश्चेति इकार उच्चारणार्थो न तु विवक्षितस्तदाह यकारे इवर्णे चेति । विवर्णयोरिति पाठस्तूचितः । लोपं बाधित्वेति । लोपस्य तूदाहरणम् - श्रादीध्य गतः आवेव्य गतः । दीषिता ।